________________
स्यमानमात्मनि सुख दुःखादिस्वधर्माध्यासे उपाधिः, स्फटिके जपाकुसुममिव लौहित्यावभासे । एवं प्राणादयस्तद्धर्माश्चाशनीया-पिपासादयः, तथा, श्रोत्रादयो वागादयश्च तद्धर्माश्च बधिरत्वा-ऽन्धत्वादयोऽध्यस्यन्ते, तथा, देहस्तद्धर्माश्च स्थूलत्वादयः । तत्रेन्द्रियादीनां न तादात्म्याध्यासः, 'अहं श्रोत्रम्' इत्यप्रतीतेः, देहस्तु 'मनुष्योऽहम्' इति प्रतीतेस्तादात्म्येनाध्यस्यते । . ननु कथमज्ञानादीनामध्यस्ततया प्रतीतिः, न तावदध्यक्षा, इन्द्रियाजन्यत्वात् , नाप्यनुमितिः, लिङ्गाधननुसंधानेऽपि भावात् ? इति चेत् । उच्यते, चिदात्मनोऽज्ञानोपहितस्य साक्षित्वेन तस्य भास्यसंसर्गमात्रमपेक्ष्याज्ञानादीनामाध्यासिकसंसर्गभासकत्वात् तदवभासः । तेन यावद् विषयसत्त्वं 'अहमज्ञः, सुखी, दुःखी, मनुष्यः' इति भासमानत्वाद् न कदापि संदेहः । स चापरोक्षकस्वभावः, अध्यस्ता-ऽधिष्ठान योरभेदेन संविदभिन्नत्वात् । संविदभेदो ह्यपरोक्षता नाम । स च नानिर्वचनीयतादात्म्यस्वरूपः, तादात्म्यसंसर्गादीनामपरोक्षत्वाभावप्रसङ्गात् , तत्र तादात्म्यान्तराभावात् , किन्तूक्तलक्षण एवेति ।
नन्वेवं घटस्य संविदभिन्नत्वाभावात् परोक्षत्वमापयत इति चेत् । किमीश्वरस्य, जीवस्य वा ? । नाद्यः, ब्रह्मण्यभेदेनाध्यस्तत्वाद् घटादीनाम् । नापि द्वितीयः, तथाहि- परिच्छिन्नजीवपक्षे तावदिन्द्रियद्वारा निःसृतान्तःकरणवृत्त्या संसृष्टो घटः, घटसंसृष्टा वा वृत्तिः प्रमातृचैतन्यस्य घटावच्छिन्नब्रह्मचैतन्यावरणनिवृत्तौ, तदज्ञाननिवृत्ती वा, तदुभयाभावपक्षेऽनिवृत्ती वा विषयचैतन्याभेदेनाभिव्यक्तिहेतुः संपद्यते । ततः स्वाध्यस्तो घटः सुख पदपरोक्षः । सुखं साक्ष्यपरोक्षम् , घटः प्रमाणापरोक्ष इत्येतावान् भेदः । अपरिच्छिन्नजीवपक्षेऽप्यसङ्गस्य जीवचैतन्यस्य घटोपरागार्था वृत्तिः । उपरागस्तु न संयोगादिः, मानाभावात् , किन्तु स्वाध्यस्तत्वमेव । तचात्र पक्षे व्यवहारसौकर्याय घटावच्छिनाचैतन्येष्वावरणान्तराज्ञानान्तरास्वीकाराद्
arel
Jain Education Interna
For Private & Personel Use Only
[Marjainelibrary.org