________________
शास्त्रवातोसमुच्चयः।
सटीकः। स्तबकः। ॥८ ॥
॥२८२॥
Kale
अपरस्तु श्रवणादिपरिपाकेऽपि प्रारब्धप्रतिबन्धेनानुत्पत्रज्ञानस्तमाशे शरीरनाशाद् योन्यन्तरगतो गर्भस्थदेहाभिव्यक्तौ प्रथममेव 'अहं ब्रह्मास्मि' इति प्रत्ययं लभते, वामदेववत् । अन्यः पुनः साधनसंपन्नः श्रवणाद्यभ्यासे क्रियमाणे मध्ये मृतः श्रवणाद्यभ्याससामोवुद्धपूर्वशुभकर्मफलानि बहुकालं भुक्त्वा शुचीनां श्रीमतां योगिनां वा कुल उत्पन्नः पूर्वाभ्यासवशेन पुनः प्रारब्धश्रवणाद्यभ्यासपरिपाकलब्धज्ञानो विमुच्यत इति । एवं विराडायुपासकानां विराडादिसायुज्यमाप्तिः, प्रतीकोपासकानां च विद्युल्लोकमाप्तिाख्येया।
अन्ये त्वज्ञानक्यात् तदुपहितं जीवमेकमेवाङ्गीकुर्वन्ति । तेषामुपासकानां क्रममुक्तिफल श्रवणमर्थवादमात्रम् । चित्तैकाग्ये तूपासनोपयोगः, कर्मानुष्ठानवत् । न त्वन्तिमप्रत्ययोत्पत्त्या फलदमुपासनम् , जीवैकत्वेऽप्यन्तःकरणभेदेन प्रमातृभेदाद् वोपसनोपपत्तिः, केपाश्चित् प्रमातृणामनुष्ठितोपासनापरिपाके ब्रह्मलोकं गतानां यावत्कल्पमवस्थाय कल्पान्तर आवृत्तेः "इमं मानवमावर्त नावंतते" इति श्रुतौ ' इमम्' इति विशेषणादेतत्कल्प एवानावृत्तिपर्यवसानात् , अन्यथैतद्विशेषणानुपपत्तेः । वामदेवादीनां मुक्तत्वश्रवणं काल्पनिकाभिप्रायम् , नित्यमुक्तत्वाभिप्रायं वा । नं चानाश्वासः, श्रुतेः प्रामाण्यात् , अनेकजीववादेऽद्य यावत् कस्यचिदमुक्तत्ववत् , एकजीववादे सर्वस्य तत्त्वोपपत्तेः । तदेवं निरूपितो जीवः ।
___ तत्रान्तःकरणमध्यस्यते 'अहम्' इति, रज्ज्वामित्र सर्पः । निरुपाधिकोऽयमध्यासः, उपाधेरनिरूपणात् । 'अहमज्ञः' इति त्वहंकारा-ऽज्ञानयोरेकचैतन्याध्यासात् , एवं वदिसंबन्धाद् दग्धृत्वा-ऽयसोरिव 'अयो दहति' इतिप्रत्ययः । तच्चान्तःकरणं स्मृतिप्रमाणवृत्तिसंकल्पविकल्पावृत्त्याकारेण परिणतं चित्त-बुद्धि-मनो-ऽहङ्कारशब्दैर्व्यवहियते । इदमेवात्मतादात्म्येनाध्य
श्चत् अमाती इमम्' इति विशेषत्वाभिप्रायं वा । न चानना जीव
|२८२॥
in Education in
F
For Private & Personal use only
www.jainelibrary.org