________________
तिष्ठन्नामरणाभ्यस्यमान केवल हिरण्यगर्भोपासनायाः परिपाके मरणकाले ' अहं हिरण्यगर्भः' इति प्रत्ययोद्रेके देहं विसृज्याचिरादिमार्गेण ब्रह्मलोकं गतो हिरण्यगर्भसायुज्यं गच्छति । सायुज्यमत्र 'सयुजो भावः' इति व्युत्पत्या भूतावेशन्यायेन हिरण्यगर्भशरीरे चतुर्मुखे उपास्योपासकयोरवस्थानम्' इति केचित् । ' तन्न, सायुज्यशब्दस्य तादात्म्ये रूढत्वात्, योगाद् रूढेर्बलीयस्त्वात् परिच्छिन्नलिङ्गस्योपासकस्यापरिच्छिन्नलिङ्गोत्पाद:' इत्यन्ये । तदपि न, सारूप्यलक्षणापत्तेः परिच्छिन्नलिङ्गनाशे मानाभावाच्च ।
परे तु - 'अपरिच्छिन्नमेकमेव समष्टिलिङ्गं पाप्मासङ्गादिदोषेण भ्रान्त्या परिच्छिन्नतां गतमुपासनया पाप्मादिनिवृत्तौ स्वरूपेणावतिष्ठते, तेन जीवस्य ब्रह्मभाववद् हिरण्यगर्भ सायुज्यम्' इत्याहुः । तदपि न, लिङ्गस्यैकत्वेन तस्य हिरण्यगर्भाaaaaaaa नाशे क्रममुक्तिफलसमर्पकोपासनावाक्यप्रमाण्यादिह श्रवणाद्यनुपपत्तेः । क्रममुक्तिमात्राङ्गीकारे उपासनाविचारस्यैव कर्तव्यत्वेन ब्रह्मविचारस्याकिञ्चित्करत्वप्रसङ्गाच्च । अपरिच्छिन्नलिङ्गानेकत्वेऽपि सायुज्यशब्दस्य सारूप्ये लक्षणापत्तिः । परिच्छिन्नस्यापरिच्छिन्नेन तादात्म्यमिति चेत् । न, सर्वरूपे स्थितेऽन्यस्यान्यात्मतानुपपत्तेः, नाशे मानाभावाच्च । संकोच विकाशपक्षस्त्वत्यन्ताप्रामाणिकः । तस्माद् यथावस्थितलिङ्गस्यैवोपासकस्योपासनाफलम् | 'समष्टिलिङ्गे हिरण्यगर्भे देहादाविवानिर्वचनीयं तादात्म्यम्, उपासनादशायाम् 'हिरण्यगर्भोऽहम्' इति प्रातिभप्रत्ययाद् विलक्षणस्य सायुज्यदशायामप्रातिभस्य तत्प्रत्ययस्य फलभूतस्य विषयः' इति वदन्ति ।
अन्यस्तूपासनाया अपरिपाके हिरण्यगर्भसालोक्यादि गच्छति, परस्त्विहैव श्रवणादिपरिपाकोत्पन्नज्ञानो मुच्यते,
Jain Education national
For Private & Personal Use Only
www.jainelibrary.org