________________
सटीकः। स्तबकः। ॥८ ॥
RSA
शास्त्रवार्ता- मुखाभावाज्ञानेन यदि मुखमपरोक्षम् , तदा तत्संसर्गस्य, अन्यथा तस्यैवोत्पत्योपपत्तेः, मुखाधिष्ठानत्वस्यानुभवाननुसारिसमुच्चयः। त्वादिति चेत् । न, सोपाधिक-निरुपाधिकभ्रमव्यवस्थाविप्लवप्रसङ्गात् , 'लोहितः स्फटिकः' इत्यत्रापि शुक्त्यज्ञानाद् रजतभ्र. ॥२८॥
मवज्जपाकुसुमत्वाज्ञानालोहिते तस्मिन् स्फटिकतादात्म्यभ्रमस्य सुवचत्वात् , अधिष्ठानस्योपाधित्वे च सर्वभ्रमाणां सोपाधिकत्वप्रसङ्गः, प्रत्यभिज्ञानाच्च न मुखान्तरोत्पत्तिः। नन्वेवं ततोऽज्ञाननिवृत्तौ भेदभ्रमोऽपि निवर्तेतेति चेत् । न, सोपाधिकभ्रमनिवृत्तावुपाधिनिवृत्तेः पुष्कलकारणत्वात् , भेदाध्यासे दर्पणस्योपाधित्वात् , सत्यपि प्रत्यक्षप्रत्यभिज्ञाने यावदुपाधिभेदाध्यासानुवृत्तेः। तस्माद् मुखमधिष्ठानं, तत्र च भेदोऽध्यस्यत इति स्थितम् । एवं चाज्ञानादो प्रतिविम्बे सत्यपि नाभासान्तरम् , मानाभावात् , अज्ञानाध्यासेन परिच्छिन्नत्वापत्यैव सादृश्यसंभवादिति विशेषः।।
'स च जीवोऽज्ञानबहुत्ववादे हिरण्यगर्भ-विराडादिभेदेन नाना, तदैक्येऽपि तच्छक्तिभेदात् , तज्जान्तःकरणभेदाद् वा नाना' इत्यप्याहुः । अज्ञानभेदे प्रत्यज्ञानमावरणविक्षेपशक्तिकल्पने गौरवम् , तदैक्ये त्वेकत्रैव तावच्छक्तिकल्पनालाघवम् । न च तावत्यः शक्तय एव सन्तु किमज्ञानेन ? इति वाच्यम्; तासां साश्रयत्वनियमात् । चैतन्यं च न तदाश्रयः, शक्तस्य प्रपञ्चोपादानत्वात् , तस्य च सत्यत्वेनातथात्वात् । ततः शक्तिभेदेन तदुपहितजीवभेदः, तत्तजीवगततत्त्वज्ञानेन जीवोपाधिशक्तिनाशाद् मुक्त्युपपत्तेः । एवमन्तःकरणभेदेऽपि भाव्यम् । केवलमत्र "तन्मनोऽकुरुत" इति श्रुतेरन्तःकरणस्य जन्यवाज्जीवस्य सादित्वप्रसङ्ग इति नातीव प्राज्ञानामादरः ।
जीवभेद एव क्रममुक्तिफलानां हिरण्यगर्भाधुपासनावाक्यानामुपपत्तिः । तथाहि- कश्चिद् वेदार्थाभिज्ञो नित्याद्यनु
Soooooo
॥२८॥
Jain Education International
For Private & Personal Use Only
Trwadiwww.jainelibrary.org