________________
जानामि' इत्येतावान्मात्रमेवेति चेत् । न, 'अहं मां न जानामि' इत्यत्राखण्डस्यैव ब्रह्माधिष्ठानस्य चैतन्यस्यावभासनात्, अज्ञा ततोपहितचैतन्यस्येश्वररूपस्यानवभासनात्, अज्ञाततारूपोपाधिस्फुरणेऽप्ययोग्यत्वेन तदुपहितास्फुरणात्, घटस्फुरणे घटोपहिताकाशा स्फुरणवत् ।
आभास वादिनस्तु दर्पणादौ मुखान्तरोत्पत्तिं स्वीकुर्वाणाश्चैतन्याभासमज्ञानेऽभ्युपगच्छन्तस्तत्तादात्म्यापनं चैतन्यं जीवमाहुः । aratarrer froपाधिकाध्यासमात्रे सादृश्यापेक्षणादाभास तादात्म्यापन्नेऽन्यासादृश्यापने चैतन्ये तादृशाहङ्कारराध्याससंभवाय । जन्याध्यास एव निरुपाधिके सादृश्यापेक्षणाच्च नाभासाध्यासेऽपि तदपेक्षायामनवस्थापत्तिः, तस्यानादित्वात् । न चाज्ञानाध्यासेन सादृश्यसिद्धिः, जाड्येन तदापत्यसिद्धेः । तद्धि जडतादात्म्यम्, न चाज्ञानं तादात्म्येनाध्यस्तम्, संसर्गेणाध्यस्तत्वात् 'अहमज्ञः' इति । अतोऽनाद्याभासतादात्म्याभ्यासेन जाड्यापत्या सादृश्ये सत्यहङ्काराध्यासो युज्यत इति । न चाभासे मानाभावः, 'आदर्श मुखम्' इति स्पष्टं मुखान्तराभासात् । 'एकत्र क्लृप्तमन्यत्रापि प्रतिसंघीयते' इति न्यायेनाज्ञानेऽपि चैतन्याभासाङ्गीकारात् । एवमन्तःकरणादावपि । अज्ञानगतचैतन्याभासस्तु जीवशब्दप्रवृत्तिनिमित्तम्, तत्तादात्म्यापन्नस्य जीवत्वादिति ।
प्रतिविम्ववादे तु न मुखान्तरोत्पत्तिः, मुखेऽधिष्ठानभेदमात्रस्य द्वित्वापरपर्यायस्यादर्शस्थत्वस्य चानिर्वचनीयस्योत्पस्यैव निर्वाहात् । अधिष्ठाने मुखे कतिपयावयवावच्छेदेनेन्द्रियसंनिकर्षादपरोक्षभ्रमोपपत्तेः । नन्वादर्श एवाधिष्ठानमस्तु तत्र
१ क. ' व भ्रमाधि' ।
Jain Educationational
For Private & Personal Use Only
www.jainelibrary.org