________________
शास्त्रवार्ता
समुच्चयः ।
॥२८० ॥
विशिष्टनाशापेक्षया । भूयः शब्दोऽभ्यासार्थक इति । तदेवं निरूपितमज्ञानम् |
ततो जीवे-श्वरादिप्रपञ्चः । तत्र 'अविद्याप्रतिविम्बितं चैतन्यं जीवः' इति विवरणाचार्याः । सिद्धं चैतत् " रूपं रूपं प्र रूपी बभूव” इति श्रुतेः, “एकधा बहुधा चैव दृश्यते जलचन्द्रवत्" इत्यादिस्मृतेश्व । न चामूर्तस्य प्रतिविम्वायोगः, आकाशादेस्तदर्शनात् । नन्वविद्यावच्छिन्नं चैतन्यमेत्र जीवोऽस्तु । एवं सति सर्वनियन्तृत्वमीश्वरस्य न स्यात्, जीवभावेनोपाध्यवच्छिन्नस्य पुनरवच्छेदान्तरासंभवात्, घटाकाशादौ तथादर्शनात्, द्विगुणीकृत्य दृश्ययोगादिति चेत् । न विम्बचैतन्यस्यापीश्वरस्य प्रतिविम्वान्तर्द्विगुणीकृत्य नृत्ययोगात् । न हि जलगते स्वाभाविकाकाशे सत्यपि विस्वस्य दूरविशालाकाशस्य साभ्रनक्षत्रस्य जलान्तरवस्थानं संभवति, कल्पना तूभयत्र तुल्येति चेत् । अत्राहुः- विम्बं शुद्धमेव चैतन्यम्, अज्ञानप्रतिविम्बितं चैतन्यं साक्षी, आवरणशक्तिप्रतिविम्बभूतो जीवः, विक्षेपशक्तिप्रतिविम्वभूतश्वेश्वर इति न किश्चिद् दूषणम् उपाधिभूतस्य शक्तिद्वयस्य व्यापकतया तत्प्रतिविम्बयोर्जीवेश्वरयोरपि व्यापकत्वात्, जीवान्तर्यामित्वस्य ब्रह्मणः श्रुतिसिद्धस्याव्याहतत्वादिति ।
1
'अज्ञानावच्छिन्नं चैतन्यं जीवः' इति वाचस्पतिमिश्राः । न चात्रेश्वरस्य सर्वान्तर्यामित्वानुपपत्तिः, अज्ञानोपाध्यवच्छिन्नं चैतन्यं जीवः, अज्ञानविषयतोपाध्यवच्छिन्नं चैतन्यं चेश्वर इत्युपाधेर्व्यापकत्वेनोपहितस्येश्वरस्यापि व्यापकत्वात् । न च तथाप्यज्ञानचैतन्यस्येश्वरत्वे 'अहं मां न जानामि' इत्यनुभवादीश्वरस्य प्रत्यक्षत्वापातः । न चाज्ञाततया सर्वस्य साक्षिभास्यत्वादिष्टापत्तिः, अनुभूयमानस्य ' अहम्' इत्यज्ञानचैतन्यस्येश्वरस्य स्वरूपतः प्रत्यक्षत्वापातात् । इष्यते च 'ईश्वरं न
Jain Education Inonal
For Private & Personal Use Only
सटीकः । स्तबकः ।
।। ८ ।।
॥ २८० ॥
www.jainelibrary.org