SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ पूर्णानन्दैकरसंचिदावरणशक्तिः, आकाशादिमपञ्चजननशक्तिश्चः इति 'आवरणमेव शक्तिः' इत्यपव्याख्यानम् , तस्यात्मनिष्ठत्वात् , तच्छक्तेश्चाज्ञाननिष्ठत्वात् ।। तत्रैवाज्ञाने प्रपञ्चस्य परमार्थव्यवहारप्रतिभाससत्त्वप्रतीत्यनुकूलास्तिस्रः शक्तयः। आद्या श्रवणाद्यभ्यासपरिपाकतःप्राक्, यया पश्यन्ति नैयायिकादयः 'पारमार्थिकोऽयम्' इति प्रपञ्चम् । द्वितीया तत्परिपाके तत्त्वज्ञानात् प्राक्, यया पश्यन्ति विदितवेदान्ताः 'व्यावहारिकोऽयम्' इति प्रपश्चम् । तृतीया तु तत्त्वज्ञानोत्पत्तौ यावत् प्रारब्धमनुवर्तते । तस्याश्च कार्य यद्यपि न प्रातिभासिकसत्त्वमतीतिः, व्यवहारवादे तथा वक्तुमशक्यत्वात् , व्यावहारिके प्रातिभासिकत्वप्रतीतौ तत्त्वज्ञानिनामत्यन्तभ्रान्तत्वप्रसङ्गात् , दृष्टिसृष्टिवाद एव वस्तुतःपातिभासिकस्याप्यन्यथाभासमानस्य शक्तित्रयेण क्रमेण तथाभानोपपत्तेः; तथापि व्यावहारिकस्यापि प्रपञ्चस्य तत्वज्ञानेन बाधितस्यापि पारब्धवशेन वाधितानुवृत्या प्रतिभासस्तकार्यम् । प्राच्यशक्तरुत्तरशक्तिकार्यप्रतिबन्धकत्वाच्च न युगपच्छक्तित्रयकार्यप्रसङ्गः । प्रारब्धक्षये चान्तिमतत्त्वज्ञानेन सहाज्ञाननिवृत्तिः। तथा च श्रुतिः- "तस्याभिध्यानाद् योजनात् तत्त्वभावाद् भूयश्चाने विश्वमायानिवृत्तिः" इति । अयमर्थः- तस्य परमात्मनः, अभिध्यानात्- अभिमुखाद् ध्यानात , श्रवणाद्यभ्यासपरिपाकादिति यावत् , विश्वारम्भकमायानिवृत्तिः, आधशक्तिनाशेन विशिष्टनाशात् । युज्यतेऽनेनेति योजनं तत्त्वसाक्षात्कारस्तस्मादपि', द्वितीयशक्तिनाशेन विशिष्टनाशात् । तत्त्वभावो विदेहकैवल्यं तस्मात् , अन्ते-प्रारब्धक्षये, तृतीयशक्त्या सह निःशेषमायानाशः, अभिध्यान-योजनाभ्यां शक्तिद्वयनाशेन १ ख.ग.प.च. 'सविदार' । २ विश्वारम्भकमायानिवृत्तिरिति योगः । Join Education Internation For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy