________________
सटीकः। स्तवकः। ॥८॥
शास्त्रवार्ता- 'इममर्थ पूर्व ज्ञातवान् , इदानीं न जानामि' इत्यादिव्यवहारसौकर्याय तत्स्वीकारात् । तूलाज्ञानानि च मूलाज्ञानकार्याणि । समुच्चयः। तच्छक्तिविशेषा एव तानि, अत एवानादित्वात् तेषामनादिभावरूपं ज्ञाननिवर्त्यमज्ञानमिति लक्षणयोगात्' इत्यन्ये । ||२७९||
'तन्न, तेषामावरणविक्षेपहेतुत्वेन शक्तत्वात् , शक्तौ शक्त्ययोगात् , अज्ञानत्वात् तदनादित्वे तदावरणस्याप्यनादित्वापत्तेः, इष्टापत्तौ घटबोधदशायामपि समयान्तरभाविज्ञाननिवत्यावरणप्रसङ्गात , अनुभवविरोधात् । व्यवहारसौकर्याय तजन्यत्वाश्रयणे च तूलाज्ञानानामपि जन्यत्वस्याश्रयितुं युक्तत्वात् , भ्रमोपादनत्वस्यैवाज्ञानलक्षणत्वात् , प्रागुक्तस्याविद्यासंबन्धादावतिव्याप्तेः । किश्च, घटबोधदशायामावरणाभावेऽनादेर्घटाज्ञानस्य निर्विषयत्वप्रसङ्गः, तज्जन्यावरणरूपातिशयाभावात् । न चाजानं निर्विषयं संभवति, साक्षिभास्यं वा' इत्यपरे । तत् सिद्धं चिन्माययविषयं मूलाज्ञानम् ।
वाचस्पतिमिश्रास्तु- 'जीवाश्रयं ब्रह्मविषयं च तत् । न च जीवनिष्ठत्वेऽविद्याया जीवे प्रपश्चोत्पत्त्यापत्तिः, अहंकारादिनपश्चोत्पत्तरिष्टत्वात , आकाशादिप्रपश्चोत्पत्तेस्तु विषयपक्षपातिन्याऽविद्ययेश्वर एव संभवात् , तस्य सर्वज्ञत्वश्रुतेः, अज्ञातायां शुक्तौ रजतोत्पादवज्ज्ञाते ब्रह्मण्याकाशादिसकलप्रपश्चोत्पत्यविरोधात् । यद्यपि चित्त्वापेक्षया-ऽविद्योपहितचित्त्वस्याविद्याश्रयतावच्छेदकत्वे गौरवम् , तथापि 'अहमज्ञः' इति प्रतीतेः, ईश्वरे च तथाप्रतीतेः प्रामाणिकत्वाद् न दोषः। न च 'अहमशः' इति प्रतीतेरन्तःकरणावच्छिन्नचैतन्यस्यैवाविद्याश्रयत्वम् , तस्य जन्यतयाऽनाद्यविद्याश्रयत्वायोगात्' इत्याहुः।
तत्र माया-ऽविद्याशब्दद्वयनिमित्तं शक्तिद्वयम्-विक्षेपशक्तिः, आवरणशक्तिश्च । कार्यजननशक्तिर्विक्षेपशक्तिः, तिरोधानशक्तिरावरणशक्तिः; यथाऽवस्थारूपस्य रज्ज्वज्ञानस्य सर्पजननशक्तिः, रज्जुतिरोधान शक्तिश्च, एवं मूलाज्ञानस्याद्वितीय
यपरे । तानस्य निर्विपत्राज्ञानलक्षणत्वात । व्यवहारसौकायनादि
२७९॥
Jain Education Inte
?
For Private & Personel Use Only
FA
ww.jainelibrary.org