________________
RATA
घटादावनिर्वचनीयः, अन्यथाऽन्यथाख्यात्यापत्तेः । अत एव घटादेरप्यज्ञानविषयत्वम् , अज्ञानजन्यावरणसंसर्गरूपातिशयशालित्वात् । स चायमावरणसंसर्गो घटज्ञानेन नश्यति, घटशानदशायाम् 'अज्ञातो घटः' इत्यननुभवात् । अस्मिन् पक्षे मूलाज्ञानादेवोक्तविधया शुक्तिविषयाद् रजतोत्पत्तिः, शुक्तिज्ञानेन चावरणसंसर्गनाशे शुक्तिविषयता मूलाज्ञानस्य नष्टा, इति विशिष्टाज्ञाननाशात् सविलासाज्ञाननिवृत्तिरूपवाधव्यवहारः, न त्वज्ञाननिवृत्तिः ।
अथवा, तद्विषयवृत्यभाव एव घटोऽज्ञात इति ज्ञानविषयः । अस्मिन्नपि पक्षे मूलाज्ञानकार्यमेव रजतम् , शुक्तिविषयवृत्यभावस्त्वन्वय-व्यतिरेकाभ्यां मूलाज्ञानाद् रजतोत्पत्तौ फलोपधानावच्छेदकतया प्रयोजकः, न तु कारणम् , अभावस्य कारणत्वाभावात् । शुक्तिज्ञानेन रजताध्यासस्य खकारणे प्रविलयमा क्रियते, नाज्ञाननिवृत्तिः, घटादिवृत्तिश्चिदुपरागार्था नावरणसंसर्गनिवृत्त्या , घटेऽनिर्वचनीयावरणसंसर्गे मानाभावात् , जडत्वेन रणाभावात् ।
यद्वा, 'मां न जानामि' इत्यनुभूयमानं मृलाज्ञानावरणं चैतन्यनिष्ठमन्यदेव 'तत्त्वमसि' आदिवाक्यजन्यतत्त्वज्ञाननिवर्त्यम् , अन्यच्च घटावच्छिन्नचैतन्यनिष्ठमावरणं मूलाज्ञानकृतम् । ततश्च घटावच्छिन्नचैतन्यस्य मूलाज्ञानजन्यावरणान्तरशालित्वात् तद्विषयत्वम् , घटत्वस्य तु जडत्वादावरणाभावेऽप्यदृरविप्रकर्षाद् विषयत्वम् । तस्मादावरणान्तरमादाय 'अज्ञातो घटः' इति प्रतीतिः । घटज्ञानेन चावरणान्तरनित्तिः । अस्मिन्नपि पक्षे मूलाज्ञानकार्यमेव रजतम् , आवरणसंसर्गपक्षवद् बाधव्यवहारः। ___ अथवा, 'अज्ञातो घटः' इति प्रतीतिस्तूलाज्ञानविषया, सविलासाज्ञाननिवृत्तिर्वाधः, भज्ञाननिवर्तकं ज्ञानं प्रमाणम् ,
JODMAS
Jain Education in
For Private & Personel Use Only
onww.jainelibrary.org