________________
शाखवार्तासमुच्चयः।
॥२७८॥
GEORG
संख्याज्ञानाभावो विषय इति चेत् । न, 'संख्यां न जानामि' इत्यत्रागतेः । तत्रापरोक्षज्ञानाभावो विषय इति चेत् । न, 'शास्त्रार्थ न जानामि' इत्यत्रानुपपत्तेः । कचित् संख्याज्ञानाभावः, कचिदपरोक्षज्ञानाभावः, कचिद् निश्चयाभावो विषय इति ।
स्तबकः। चेत् । न, अननुगमात् । 'तच्च चिन्मात्राश्रयविषयमिति विवरणाचार्याः, आश्रयविषयभेदकल्पनायां गौरवात् । कल्पितं ।
| ८ ॥ चेदम् , तेनाखण्डत्वादेर्वस्तुतश्चिद्रूपत्वात् , चिद्रूपस्य चानावृतत्वाद् नानुपपत्तिः, 'चैतन्यं स्फुरति नाखण्डत्वादि' इत्येवं तेनावरणेन भेदकल्पनात् । आश्रयमेव कथमावृणोति तत् ? इति चेत् । सत्यम् , अन्धकारे तथादर्शनात् ।
अथ चैतन्यनिष्ठावरणे मानसत्त्वे तदसत्वे वावरणानिवृत्ति-तदसिद्धिप्रसङ्ग इति चेत् । न, साक्षिसिद्धत्वात् तस्य, 'अहं मां न जानामि' इत्यनुभवात् । अत्र च 'माम्' इति द्वितीयार्थस्य विषयत्वस्याऽज्ञानजन्यावरणरूपातिशयशालित्वस्यो. लेखात् । ननु चिन्मात्रनिष्ठ आवरणे 'घटोऽज्ञातः' इति कथम् ? । 'अस्ति' 'प्रकाशते' इति स्वतः स्फुरति चैतन्ये ब्रह्मण्यपि तथाव्यवहारप्रसक्तो 'नास्ति' 'न प्रकाशते' इति व्यवहारार्थमेवावरणकल्पनात्; घटादौ तु स्वतोऽनकाशे तस्य व्यर्थत्वादिति चेत् ।
अत्राहः- 'विषयैः सहाज्ञानस्य साक्षिचैतन्येऽध्यासात् प्रतिभासः' इति । अस्यार्थः- ईश्वरस्योपाधिवशाद विष्ण्वादित्रै विध्यवत् साक्षिण एव ततो जीवे-श्वरभावेन द्वैविध्यात् , साक्षिणीश्वरत्वावच्छेदेन विषयाणामध्यासात , अज्ञाना-ऽऽवरणयोरपि चिन्मात्राश्रयत्वेन तत्र सत्त्वाद् विषयनिष्ठतयाऽज्ञानावरणप्रतीतिः 'अज्ञातो घटः' इति; यथा लौहित्य-मुखयोः स्फटिकाचलपति
| ॥२७८॥ बिम्बितयोः 'लोहितं मुखम्' इति परस्परसंसर्गो भासते । तेन कुसुमादिनिष्ठलौहित्यसंसर्ग इव मुखे चिनिष्ठावरणसंसर्गो
Jan Education International
For Private Personal Use Only
www.ainelibrary.org