________________
Jain Education Intern
तच्चाद्वितीयम् प्रपञ्चासिद्धया विजातीय भेदशून्यत्वात् ; अखण्डमपि, सजातीय भेदशून्यत्वात् ; तथाहि न तावच्चेतनभेदः प्रत्यक्षसिद्धः । न हि चेतना घटादय इव भेदेनानुभूयन्ते । तत्तच्छरीरप्रवृत्या भिन्नाः कल्प्यन्त इति चेत् । न, एकेनैव ततच्छरीरमत्युपपत्तावनेक कल्पनानुपपत्तेः । सुख-दुःखादिवैचित्र्यादनेकत्वमिति चेत् । न तस्याप्युपाधिभेदत एवोपपत्तेः । दृष्टं हि गगनस्यैकस्यैव भेरी-कर्णाद्युपाधिभेदेन शब्दविशेषहेतुत्व- शब्दग्राहकत्वादिवैचित्र्यम् । इष्यत एव चानेकात्मवादिभिरपि प्रतिचेतन मन्तःकरणे न्द्रियादिभेदः । ततस्तदुपाधित एवं सुख-दुःखादिवैचित्र्येोपपत्तिः, भानाभानव्यवस्थापि तेनैवोपपद्यते ।
किञ्च, घटादयः, शरीरादयः, बुद्ध्यादयः, तदाधारथ स्फुरन्तीत्यविवादम् । स्फुरणं चोपाधिभेदं विनाऽविभाव्यमानभेदतया, लाघवेन चैकम् । ततश्च परेषामनुव्यवसायशब्दाभिधेयं स्फुरणं नित्यमेकमात्मेत्युच्यते । तच्च न सुखादिमत्, तद्विषयत्वात्, अननुभवाच्च । एवं च सुखादिवैचित्र्येण तदाधारभेदेऽपि न स्फुरणभेदः । इष्यते च नैयायिकैरपि व्यापकमेकं नित्यमीश्वरज्ञानम् । वस्तुतः कार्यमात्रोपादानतया नित्यैकज्ञानस्यैव सिद्धिः, न तु तदाश्रयस्यापि तस्यैव च तत्तदुपाधिभेदमतिभास संभवे सुखादिवैचित्र्यवद्धमोक्षादिव्यवस्थोपपत्तौ न पारमार्थिक भेदकल्पनावकाशः, जीवेश्वरादिविभागस्याप्यज्ञानोपाधिकत्वात् ।
अज्ञानं च माया-विद्यादिशब्दाभिधेयम् । मानं च तत्र 'अहमज्ञः' 'मामन्यं च न जानामि' 'त्वदुक्तमर्थ न जानामि' 'शास्त्रार्थं न जानामि' इत्याद्यनुगतः प्रत्ययः, अनुगतविषयं विना तदनुपपत्तेः, अन्यथा सत्तादिसामान्यो च्छेदप्रसङ्गात् । ज्ञानसामान्याभावोsa विषय इति चेत् । न, आत्मनि तस्याभावात्, अर्थेन सहानुभवाच्च । 'अर्थ न जानामि' इत्यर्थगत
For Private & Personal Use Only
v.jainelibrary.org