________________
शाखवातासमुच्चयः।
सटीकः । स्तबकः । ॥८॥
॥२७७॥
सत्त्वस्य प्रत्यक्षेणाप्रतीतः । कल्प्यत इति चेत् । यत्र प्रतिपन्नं तत्रैव किमिति न कल्प्यते ? । बाधानुभवादिति चेत् । बाधयोग्यं तर्हि कल्प्यताम् । युक्तं ह्येतद् यद् यथा प्रतीयते तत् तथैवाभ्युपगम्यत इति । सर्पसत्त्वे तुल्येऽपि कथमेको वाच्यो नापरः ? इति चेत् । कथं प्रतीतितुल्यत्व एकत्र सत्त्वमपरत्रासत्त्वम् ? । बाधप्रतीतेरिति चेत् । तुल्यं ममापि ।
किञ्च, साधकतावच्छेदकत्वं न प्रपानुभवत्वम् , गौरवात् ; किन्त्वनुभवत्वम् , लाघवात् । ततश्चावच्छेदकलाघवेन पुरोवर्तिनि सर्पसिद्धिः, तस्य च मिथ्यात्वमनुभवादेव 'मिथ्या सर्पः' इति । अज्ञानाद्युपादानकल्पनागौरवप्रसङ्ग एवमिति चेत् । न, अवच्छेदकलाघवेन तस्य फलमुखत्वात् । वस्तुतस्तु विपरीतमेव गौरवं परेषाम् , अत्र प्रतिपन्ने देशान्तरसत्त्वस्याप्रत्यासन्नस्यापरोक्षत्वस्य ज्ञानस्य प्रत्यासत्तित्वस्य दोषस्य तादृक्सामर्थ्यादेः कल्पनात् ।
किच, परैरपि विशेषादर्शनस्य भ्रमहेतुत्वमुपेयते । तत्र तैरभावत्वं कल्प्यते, अस्माभिस्तु भावत्वं लघुभूतम् । तैश्च निमित्तत्वं कल्प्यते, अस्माभिस्त्वन्तरङ्गमुपादानत्वम् , इति स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वरूपं कथं मिथ्यात्वम् ? । सर्पस्य स्वाभावसामानाधिकरण्यविरोधादिति चेत् । न, पृथिव्यां रूपे गन्धसामानाधिकरण्याविरोधवद् रजौ सर्प स्वाभावसामानाधिकरण्यस्याप्यविरोधात् । कथं तर्हि भ्रान्तित्वम् ? इति चेत् । स्वाभावाश्रये सचात् । परेषां स्वाभावाश्रये सत्वावगाहित्वं भ्रान्तित्वप्रयोजकम् , अस्माकं तु स्वाभावाश्रये सत्वम्, इति लाघवम् । पुरोवर्तिनि सर्पसचे व्यवहारः स्यादिति चेत् । भ्रमदशायां स्यादेवः बाधदशायां तु बाधस्य प्रतिबन्धकत्वादेव, अन्यदा च सामग्रीविरहादेव न स्यादिति । तदेवमनिर्वचनीयस्य सर्पस्य रज्जुरिव, अनिर्वचनीयस्य प्रपञ्चस्य ब्रह्मैव तत्त्वम् ।
EPRESEARC
॥२७७॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org