SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ सटीकः । स्तबकः। ॥८॥ BEEG शास्त्रवातो- च्छन्ति- एकमेव तत्त्वमुपयन्ति, द्वाभ्यामितं द्वीतं, द्वीते भवं द्वैतं, न द्वैतमद्वैतमिति योगार्थः । कुतः ? इत्याह- यत्- यस्मात्, समुच्चयः सतः- परमब्रह्मणः, अन्यत्- स्वातिरिक्तम् , न भेदकम् । तच्च- भेदकत्वाभिमतं नीलादि च, तन्मात्रमेव- ब्रह्ममात्रमेव, ॥२७६॥ अनवच्छिन्नस्याकाशस्य घट-पटायुपाधिभिरिव, अनवच्छिन्नस्प ब्रह्मणो नीलादिभिर्भेदायोगात् । किञ्च, भेदस्य वस्तुस्वभावत्वे तस्यैकस्यानेकवृत्तित्वाद् वस्तूनामपि भेदो न स्यात् , नैकस्मादभिन्नमभिन्न स्वभावं भिन्नं युज्यते । अर्थान्तरत्वे च तस्य वस्त्वरूपत्वात् स्वरूपेण भावा न व्यावृत्ताः स्युः । कल्पितात्तु भेदात् कल्पितमेव नीलादिनानात्वम्, न तु पारमार्थिकम् । अथ परापेक्षं वस्तुनो भिन्नत्वं, स्वरूपेण त्वेकत्वमिति न दोष इति चेत् । न, न हि वस्तु स्वहेतुवलोदितं स्वभावव्यवस्थित ये परमपेक्षत इति पुरुषप्रत्ययधर्म एव परापेक्षत्वमिति न ततो वस्तुभेदः । यदि च भेदस्वरूपो भावः प्रतियोग्यपेक्षः स्यात् , स्वहेतोरविकलस्य तस्योत्पत्तिर्न स्यात् । स्वहेतोरेव प्रतियोग्यपेक्षभेदाख्यरूपस्तदनपेक्षस्वरूपश्च भाव उत्पन्न इति चेत् । ननु क इहापेक्षार्थः । न तावत्पत्तिः, स्वहेतुत एव तदुदयात् । नाप्यर्थक्रिया, प्रतियोग्यसंनिधानेऽप्यर्थक्रियादर्शनात् । प्रतीतिश्चेत् । तर्हि रूपादेः स्वरूपस्य चक्षुरादित इव भेदस्यापि ज्ञानात् प्रतियोगिनः प्रतीतावपि न सापेक्षस्वभावत्वम् । कथं तयेकत्रापि पितृत्वादयः इति चेत् । एकत्र इस्वत्व-दीर्घत्वादिवत् कल्पिता एव । . स्यान्मतम् , अर्थक्रियाभेदाद् वस्तुभेदः स्यादिति । न, दाह-पाकविभागेनापि कृशानोरभेदात् तत्रादृष्टयाऽर्थक्रिययाPosर्थभेदः, यथा चक्षुष्मत्यपि बधिरेऽदृष्टया शब्दबुद्ध्येन्द्रियभेद इति चेत् । नाद्वैते किश्चिदेकत्रादृष्टं नाम । ततश्च तत्रादृष्टार्थक्रिया सिद्धौ तद्भेदसिद्धिः, सिद्धे च भेदे तत्रादर्शनमितीतरेतराश्रयः। अपिच, सन्मात्रे सर्वत्र प्रत्यक्षाद् निश्चिते तत्र भेदानवकाशः, २७६॥ JANSI Jain Education Interational For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy