________________
Jain Educatio
यास्तदुक्तम्-
" जीवइआ वयणपहा तावइआ चैत्र हुंति णयवाया। जावइआ णयवाया तावइआ चैव परसमयाँ ।। १ ।।" इति । अस्यार्थः -- यावन्तो वचनपथाः- वक्तृविकल्पहेतवोऽध्यवसायविशेषाः, तावन्तो नयवादा:- तज्जनितवक्तृविकल्पाः शब्दात्मकाः, सामान्यतो नैगमादिसप्तभेदोपग्रहेऽपि प्रतिव्यक्ति तदानन्त्यात् । यावन्तश्च नयवादास्तावन्त एव परसमयाः, निरपेक्षवक्तृविकल्पमात्रकल्पितत्वात् तेषाम् । तथाहि — कापिलं दर्शनं निरपेक्षद्रव्यार्थिकनयविकल्पप्रसूतम्, वौद्धदर्शनं च निरपेक्षशुद्धपर्यायास्तिकन यविकल्पजनितम्, द्वाभ्यामपि च परस्परनिरपेक्षाभ्यां द्रव्यार्थिक-पर्यायार्थिकाभ्यां प्रणीतमौलूक्यदर्शनम् । तदाह-
"जंकाविलं दरिसणं एयं दव्वद्विअस्स वत्तव्वं । सुद्धोअणतणयस्स उ परिसुद्धा पज्जवविअप्पो || १ |
दोहि वि एहि णी सत्थमुलूएण, तहवि मिच्छतं । जं सविसयप्पहाणत्तणेण अन्नुन्नणिरवेक्ख ॥ २ ॥ " एवमपनिषद दर्शनादीनामपि संग्रहनयादेः प्रादुर्भूतिर्भावनीया । अत एव परदर्शनाभिमतेऽर्थे स्यात्कारमात्रेण स्वावधारणसंभवाद् भवति साम्य संपत्तिः स्याद्वादिनः कर्मदोषादज्ञाननिमग्नं परं पश्यतः । परेषां तु स्वपक्षसिद्धावन्योन्यं कलहाय
१ यावन्तो वचनपथास्तावन्त एव भवन्ति नयवादाः । यावन्तो नयवादास्तावन्त एव परसमयाः ||१|| २ सम्मतिप्रकरणे गाथा १४४ । ३ यत् कापिलं दर्शनमेतद् द्रव्यार्थिकस्य वक्तव्यम् । शुद्धोदनतनयस्य तु परिशुद्धः पर्यवविकल्पः ॥ १ ॥
द्वाभ्यामपि नयाभ्यां नीतं शास्त्रमुलकेन, तथापि मिथ्यात्वम् । यत् स्वविषयप्रधानत्वेनान्योन्यनिरपेक्षम् ॥२॥ ४ सम्मतिप्रकरणे गाथा १४५ | १४६ ।
national
For Private & Personal Use Only
www.jainelibrary.org