SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ सटीकः। स्तबकः । ॥ ७॥ शास्त्रवार्ता- वतारात् ; इयं च वैलक्षण्यात प्रमैवेति भावः ॥ ६४ ॥ समुच्चयः। नन्वेवमपि लूनपुनर्जातनख-केशादिषु प्रत्यभिज्ञावत् प्रकृतप्रत्यभिज्ञाप्यप्रमाणं भविष्यतीति संशयात् कथमर्थनिश्चयः ? ॥२७३॥ इत्यत आहप्रत्यक्षाभासभावेऽपि नाप्रमाणं यथैव हि । प्रत्यक्षं, तद्वदेवेयं प्रमाणमवगम्यताम् ॥६५॥ प्रत्यक्षाभासभावेऽपि- 'शुक्तौ रजतम्' इति मिथ्याप्रत्यक्षसद्भावेऽपि, यथैव हि नाप्रमाणं, प्रत्यक्षं- 'इदं रजतम्' इत्यादि समीचीनं प्रत्यक्षम् ; तद्वदेवेयं- प्रत्यभिज्ञाभाससद्भावेऽपि, प्रमाणमवगम्यताम्-प्रमात्वेन निश्चीयताम् , भ्रमप्रमासाधारणप्रत्यक्षत्वदर्शनजनितस्य प्रत्यक्ष इव तादृशप्रत्यभिज्ञात्वदर्शनजनितस्य प्रकृतप्रत्यभिज्ञायामपि प्रामाण्यसंशयस्यावाध्यत्वविशेषदर्शनेन निवर्तनादिति भावः ॥६५॥ न चेयमतन्त्रसिद्धत्याह-- मतिज्ञानविकल्पत्वान्न चानिष्टिरियं यतः। एतबलात्ततःसि नित्यानित्यादि वस्तु नः ॥ यतो मतिज्ञानविकल्पत्वाद् न चेयमनिष्टि:-प्रत्यभिज्ञाङ्गीकारो नापसिद्धान्त इत्यर्थः, वासनाधारणाफलत्वेन तदुपग| मात्; तत एतद्वलात्-प्रत्यभिज्ञान्यथानुपपत्तेः, नः-- अस्माकं, नित्यानित्यादि वस्तु सिद्धम् , आदिना सदसदादिग्रहः । R. तदेवं सिद्धो वस्तुयाथात्म्यपरिच्छेदप्रवणः स्याद्वादः । एतदेकदेशालम्बना एव परस्परनिरपेक्षाः प्रवर्तन्तेऽपरिमिताः परसम- २७३॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy