________________
StorroOOOOOO
दर्शिनां बांधावतारात् । अत्रापि योगिनां बाधावतारोऽस्त्येवेत्याशङ्कयाह--- योगिप्रत्ययतद्भावे- योगिनां ज्ञानस्योक्तमत्यभिज्ञाबाधकत्वे, नास्ति प्रमाणं किश्चन, श्रद्धामात्रशरणत्वात् ॥ ६२ ॥
एतदेव प्रकटयतिनाना योगी विजानात्यनाना नेत्यत्र का प्रमा?।देशनाया विनेयानुगुण्येनापि प्रवृत्तितः६३
नाना-प्रतिक्षणभिन्नम् , योगी विजानाति- साक्षात्करोति जगत् , न त्वनाना- अक्षणिकस्वभावम् , इत्यत्र का प्रमा- किं निश्चायकम् । "क्षणिकाः सर्वसंस्काराः" इति देशनैवात्रार्थे प्रमाणम् , यथादृष्टार्थस्य योगिना देशनादित्याशन्याह- देशनाया उक्तलक्षणायाः, विनेयानुगुण्येनापि-विनाप्यर्थ श्रोत्रनुग्रहार्थमपि, प्रवृत्तितः- संभवात् , ब्राह्मणभार्यामृतत्वदेशनावत् ॥ ६३॥
प्रत्यभिज्ञाभासव्यावृत्ततयाऽस्याः प्रामाण्यमुपपादयतिया च लूनपुनर्जातनख-केश-तृणादिषु । इयं संलक्ष्यते सापि तदाभासा न सैव हि ॥६४॥
या च लूनपुनर्जातनख-केश-तृणादिषु इयं- प्रत्यभिज्ञा, संलक्ष्यते-'स एवायं नखः' 'स एवायं केशः' 'तदेवेदं तृणम्' इत्याधुल्लिख्यते, सापि तदाभासा- प्रत्यभिज्ञाभासा, न सैव हि-न प्रत्यभिज्ञाप्रमैव हि, लूनपुनर्जातत्वप्रतिसंधाने तत्र बाधा
१ मुदितमले 'त्र न प्र' इति पाउः ।
RRicceORRICS
Jain Education
on
For Private & Personel Use Only
www.jainelibrary.org