________________
शास्त्रवातो
समुच्चयः । ॥२७२ ॥
Jain Education I
तद्वतस्तादात्म्यं भासते ? । अदृष्टभेदादिति चेत् । तत एवं तर्हि शबलवस्तु तदा तदा तथा तथा भासताम् एकस्य वैचित्रयकल्पनाया न्याय्यत्वात्, 'धर्मी०' इति न्यायात् ।। ६० ।।
न चेयं भ्रान्तिकारणादप्युत्पत्तुमर्हति परमत इत्याह
सादृश्याज्ञानतो न्याय्या न च विभ्रमबलादपि । एतद्द्वयाग्रहे युक्तं न च सादृश्यकल्पनम् ॥
सादृश्याज्ञानतः - सादृश्यज्ञानाभावात् विभ्रमवलादपि भ्रमहेतुसामर्थ्यादपि, नैषा क्षणिकेषु विभिन्नेष्वेकत्वमत्यभिज्ञा न्याय्या । हेतुं समर्थयति एतद्द्वयाग्रहे- सदृशद्वयस्य क्षणिकज्ञानेन ग्रहीतुमशक्यत्वे, न च सादृश्यकल्पनं युक्तम्, संयुक्तद्वयाग्रहे संयोगकल्पनवत् । न चासंयुक्तभागद्वयग्रहेऽपि संयोगाकल्पनात् संयुक्तभागद्वयग्रहसामन्या संयोगकल्पनवत् सहयग्रह सामग्रीत एव सादृश्यकल्पनोपपत्तिः, क्रमिकसदृशद्वयग्रहसामय्या एकस्या अनुपपत्तेः, अनन्वयिनिरंशज्ञानोपगमे संयुक्तभागद्वयग्रहसामन्या अध्यनुपपत्तेः । निरस्तश्च सौगताभिमतः सामग्रीपक्षः प्रागेवेति ॥ ६१ ॥
उत्पद्यतां वा यथा कथञ्चिदेषा, तथापि बाधाभावाद् न भ्रान्तेत्याह
न च भ्रान्तापि सद्वाधाभावादेव कदाचन। योगिप्रत्ययतद्भावे प्रमाणं नास्ति किञ्चन ॥ ६२ ॥ न च भ्रान्ताप्युक्तप्रत्यभिज्ञा, कदाचन- कदाचिदपि, साधाभावादेव- सम्यग्बाधकप्रत्ययानवतारादेव । यद्धि भ्रान्तं ज्ञानं तत्र नियमतो बाधकावतारः, यथा शुक्तौ रजतज्ञाने। चेतनेऽचेतनभ्रमे नायं नियम इति चेत् । न तत्रापि विशेष
tional
For Private & Personal Use Only
सटीकः ।
स्तवकः ।
|| 6 ||
॥२७२॥
www.jainelibrary.org