________________
Jain Educat
स्वपक्षे तदुपपत्तिमाह
तस्यैव तु तथाभावे कथञ्चिद्भेदयोगतः । प्रमातुरपि तद्भावाद्युज्यते मुख्यवृत्तितः ॥ ५९ ॥
तस्यैव तु पूर्वस्यैव तु वस्तुनः, तथाभावे तदन्वयस्वभावापरित्यागेना परस्वभावोपादाने, कथञ्चिद्भेदयोगतः - तद्द्द्रव्यतोऽभेदेऽपि तत्पर्यायतो भेदात् प्रमातुरपि तत्परिच्छेदकप्रमाणपरिणतस्यात्मनोऽपि तथाभावात्- ग्राह्यवद्] ग्राहकस्य पूर्वा- परभावेनैकानेकरूपत्वात्, युज्यते मुख्यवृत्तितस्तद्यवहाराबाधेन यथोक्तप्रत्यभिज्ञा । न ह्यन्य एवानुभवति, अन्य एव च प्रतिजानीते, नवा तदनुभव - प्रत्यभिज्ञयोभित्रै काश्रयत्वमपि, संबन्धानुपपत्तेः, पूर्वा-ऽपरार्थवदनुभवितृ प्रत्यभिज्ञातृस्वभावानु भवाच्चेति ॥ ५९ ॥
परमतं दूषयति
नित्यैकयोंगतो व्यक्तिभेदेऽप्येषा न संगता । तदिहेति प्रसङ्गेन तदेवेदमयोगतः ॥६०॥
व्यक्तिभेदेऽपि - बाल-युवादिशरीरभेदेऽपि नित्यैकयोगतः- नित्यैकशरीरत्वसामान्यसंबन्धात् एषा - उक्तप्रत्यभिज्ञा, न संगता । कुत: ? इत्याह- भिन्नयोगाद् भूतले 'इह घट:' इतिवत्, 'तदिह' इति प्रसङ्गेन, नित्यैकस्य तत्पदार्थत्वात् ; 'तदेवेदमित्यस्य' इति शेषः, अयोगतः- अनुपपत्तेः, नित्याऽनित्ययोस्तादात्म्याभावात् । तज्जातीयस्य तादात्म्याद् नायोग इति चेत् । तथा सति 'तज्जातीयोऽयम्' इति स्यात्, न तु 'सोऽयम्' इति । कथं च कचिद् नित्यस्य संबन्धः कचिच
1
national
For Private & Personal Use Only
www.jainelibrary.org