SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । ॥२७१ ॥ नाना-नानास्वभावम् । इदमिह हार्दस् - यैः पूर्वा-परकालीनघटादेरेकत्वमेव स्वीक्रियते तेषां स्वरूपतो विशिष्टभेदे, कालविशेषावच्छिन्नभेदे, श्याम-रक्तादिरूपावच्छिन्नभेदे वा कथं प्रत्यभिज्ञा १ । तद्व्यक्तित्वावच्छिन्नभेदाभावरूपस्यैकत्वस्य प्रत्यभिज्ञायमानस्यावाधाद् नानुपपत्तिरिति चेत् । न, परमाणु-द्वयणुकादिदेशविगमेन खण्डघटादिसंभावनया तदनिश्रयात् खण्डघटादिनिश्चयेऽपि तथा प्रत्यभिज्ञानाच्च । खण्डघटादौ तद्वृत्तिघटत्वावच्छिन्नभेदाभाव एव प्रत्यभिज्ञायत इति चेत् । न तद्वृत्तिघटत्वस्य घटत्वापेक्षया गुरुत्वेन भेदप्रतियोगितानवच्छेदकत्वात्, घटत्वावच्छिन्नभेदाभावसंबन्धेन तस्यान्वये च व्यक्त्यन्तरेऽपि तथाप्रत्यभिज्ञामसङ्गात् । शुद्धव्यक्त्यभेदेनैव तत्पदार्थस्येदंपदार्थे भानाद् व्यक्त्यन्तरे 'सोऽयम्' इति प्रत्यभिज्ञा भ्रान्तैवेति चेत् । व्यक्तिभेद एवं देशभङ्गे न तु रूपभङ्ग इत्यत्र किं मानम्, श्याम-रक्तादिदशयोरिव खण्डा खण्डदशयोरपि विशिष्टभेदस्य सुवचत्वात्, विशिष्टनाशोत्पादरूपवैधर्म्यस्यापि तद्वदेवात्र शुद्धव्यक्त्यभेदाविरोधित्वात् १ इति । Jain Education International किञ्च, एकान्तैक्ये 'सोऽयम्' इति विशेषणविशेष्यभावस्यैवानुपपत्तिः, अन्यथा 'घटो घटः' इत्यपि स्यात्, 'घटो घटस्वभाववान्' इतिवत् । कचिदेव किञ्चित् स्वस्मिन् प्रकारीभूय भासत इति चेतुं । तर्हि घंटे घटत्वं स्वात्मकमेव भासताम् । व्यक्तेर्जातिर्विलक्षणैवानुभूयत इति चेत् । तत्तेदंतयोरपि किं न वैलक्षण्यमनुभवसि । एवं 'रजतमिदम्' इत्यत्रेदमर्थ - रजतयोरपि भेदः स्यादिति चेत् । स्यादेवेदन्त्व - रजतत्वाभ्याम्, स्वद्रव्यान्वयेन तु न स्यादिति न किञ्चिदेतत् । यैस्त्वेकान्ततो नानात्वमेवाङ्गीक्रियते तेषामुक्तप्रत्यभिज्ञाया गन्धोऽपि नास्ति, पूर्वापरयोरेकत्वायोगात् । उक्तं चैतत् प्राक्, वक्ष्यते चानुपदमपि ॥ ५८ ॥ For Private & Personal Use Only सटीकः । स्तवकः । ॥७॥ ॥२७१ ॥ ww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy