________________
Jain Education Inte
क्षितौ- पृथिव्याम्, 'तदेवेदम्' इति - 'तदेवेदम्' इत्युल्लेखवती, लोकसिद्धैव- आगोपालाङ्गनं प्रसिद्धैव ।। ५६ ।। एतद्बलमेवाह
न युज्यते च सन्न्यायाहते तत्परिणामिताम् । कालादिभेदतो वस्त्वभेदतश्च तथागतेः ५७
न युज्यते च ‘इयं प्रत्यभिज्ञ।' इति शेषः, सन्यायात् - सतर्काद् िविचार्यमाणात्, ऋते- विना, तत्परिणामित - तस्य वस्तुनोऽन्वितविच्छिन्नरूपताम् । कथम् ? इत्याह- कालादिभेदतः- तत्कालधर्मभेदतः, वस्त्वभेदतश्च, तथागते:- 'तदेवेदम्' इति परिच्छित्तेः, अन्वयप्राधान्येन तदेतत्कालकृत-तदेतत्कालीन धर्मकृतभेदावभासात्, अन्ययमधानत्वाच्च प्रत्यभिज्ञोपयोगस्य न प्राधान्येन भेदावभासः प्रधानोपसर्जन भावस्य ज्ञाने प्रतिविषयं स्वहेतुक्षयोपशमभेदेनोपपत्तेः । एतेन 'स्वरूपविरोधाभावादेकतर निर्भक्तभागवद् नैकस्य नानात्वम्, बुद्धे रूपभेदाद् नानात्वम्, अंशे रूपाभेदाच्चैकत्वम् इत्युपगमे च नानारूपबुद्ध्युपग्राह्यत्वाद् नानात्वमेव, न त्वेकत्वम्' इत्यादि निरस्तम्, नानैकरूपप्रत्यभिज्ञया नानैकरूपस्यैव वस्तुनो ग्रहात् ॥ ५७ ॥
एतदेव भावयति
एकान्तैक्ये न नाना यन्नानात्वे चैकमप्यदः । अतः कथं नु तद्भावस्तदेतदुभयात्मकम् ५८
एकान्तैक्ये पूर्वा- परयोः, न नाना, यत्- यस्मात् कथंचिदपि, नानात्वे च सर्वथा, एकमप्यदो 'न' इति वर्तते, अतः - अस्माद्धेतोः, कथं, 'नु' इति निश्वये, तद्भावः- 'तदेवेदम्' इति प्रत्यभिज्ञोपपत्तिः । ततस्तत्- प्रत्यभिज्ञेयं वस्तु, उभयात्मकम् -
For Private & Personal Use Only
www.jainelibrary.org