________________
शास्त्रवार्ता
समुच्चयः ॥२७॥
तांश्चायम्' इत्यादितोऽपि संशयनिवृत्तेने सर्वत्र संभवदुक्तिकम् । न चोक्ताकाराऽपीहा सहचारदर्शनादिकं विना व्याप्त्याद्यग्रहात सटीकः। संभविनी । अव्यवहितनष्टं च तच्चिरतरनष्टतुल्यम् । उद्बुद्धतत्संस्कार एव तत्कार्यकारीत्युपगमे चोबुद्धसंस्कार एव ज्ञानम- स्तबकः।
॥ ७॥ स्त्विति ज्ञानसत्तैवोत्सीदेव , अनुभवविरोधश्चैवम् , इत्यादि विवेचितं ज्ञानार्णवे ॥ ५४ ॥
इत्थं च 'द्रव्य-पर्याययोनिवृत्त्य-निवृत्तिभ्यां भेद एव' इति निरस्तम् , अथ 'भेदोऽपि' इत्युक्तौ न बाध इत्याहनच भेदोऽपि बाधायैतस्यानेकान्तवादिनः। जात्यन्तरात्मकं वस्तुनित्यानित्यं यतो मतम्५५०
न च भेदोऽप्यधिकृतांशस्येतरांशात् , तस्य- वस्तुनः, बाधायै- अनेकान्तपक्षव्याघाताय, अनेकान्तवादिनः, यतःयस्मात् , जात्यन्तरात्मक- इतरेतरानुविद्धं सद् वस्तु, नित्यानित्यं मतम् , यत एव भिन्नमत एवानित्यम् , यत एव चाभिन्नमत एव नित्यमिति । न हि नित्यत्वमनित्यं वा किश्चिदेकरूपमस्ति, किन्तु यद् यदान्धीयते तत् तदा नित्यमिति व्यपदिश्यते, यदा च यद् व्यतिरिच्यते, यदा तदनित्यमिति । अत एव प्रागभावः प्राग नित्यः, ध्वंसश्च पश्चाद् नित्यः, अत एव च नित्या मुक्ति रुपपद्यत इति ॥ ५५॥
एतदेव समर्थयबाहप्रत्यभिज्ञाबलाच्चैतदित्थं समवसीयते । इयं च लोकसिदैव तदेवेदमिति क्षितौ ॥५६॥ ॥२७॥
प्रत्यभिज्ञाबलाञ्च- प्रत्यभिज्ञान्यथानुपपत्त्या च, एतत्- वस्तु, इत्थं- नित्यानित्यं, समवसीयते । इयं च-प्रत्यभिज्ञा
Jnin Education Sexonal
For Private
Personal Use Only
www.jainelibrary.org