________________
स्वभावपरामर्शात्, 'तदेव मृदात्मनाऽवतिष्ठते' इत्यत्र च तदा निवर्तमानाभिन्नस्वभावपरामर्शात् ॥ ५३ ॥ ननु निवर्तमाना- निवर्तमानयोरेकेनाग्रहणात् कथं निवृत्य-निवृत्यात्मकैकग्रहः १ इत्यत आह-
इत्थमालोचनं चेदमन्वयव्यतिरेकवत् । वस्तुनस्तत्स्वभावत्वात्तथाभावप्रसाधकम् ॥५४॥
इथं च - उक्तयुक्त्या च, इदं - निवृश्य-निवृत्यात्मकवस्तुग्राहि, आलोचनम्, अन्वयव्यतिरेकवत् - उपयोगात्मनाऽन्वयि, अवग्रहे हा ऽपाय-धारणात्मना च परस्परं व्यतिरेकि, वस्तुनस्तत्स्वभावत्वात् अन्वयव्यतिरेकि स्वभावत्वातु तथाभावप्रसाधकम् - अन्वय-व्यतिरेकस्वभावग्राहकम् । एकेनैव छुपयोगेन तदेव वस्तु सामान्यतोऽवगृह्यते, ततो निवृत्य-निवृत्तिभ्यामीह्यते, ततः 'इत्थं निवृत्तमित्थं चानिवृत्तम्' इति निश्चीयते, ततस्तथैव धार्यते, न चैत्रमुपयोगैकत्वव्याघातः, श्याम-रक्तघटवदेकत्वाविरोधात् । अक्रमैकरूपमेव ज्ञानं संवेद्यते न तु क्रमवदपीति चेत् । न कचिद् दोषात् क्रमासंवेदनेऽपि कचित् क्रमाक्रमस्य स्फुटमेव संवेदनात् । उपयुञ्जते हि लोका:- 'घटमेव जानन्नदं प्राक् सामान्यतः 'किमिदम् ?" इत्यवगृहीतवान् ततः किमनेन घटेन भाव्यमघटेन वा ?' इतीहितवान् ततः कम्बुग्रीवादिमत्वाद् घट एवायम्' इति निश्चितवान् ततः 'अयमित्थमेव ' इत्यवधृतवान्' इति । अत्र हि प्रतिनियतोल्लेखात् क्रमः, 'जानन्' इत्यत्र शतृप्रत्ययाञ्चाक्रमः स्फुट एव ।
यस्त्वक्रमिकांमेकमेव ज्ञानमुपैति, तस्य घटसामान्यालोचनानन्तरम् 'अनेन घटेन भाव्यम् इतीहैव दुर्घटा, बहुपरामर्शरूपत्वात् तस्याः । “घटत्वव्याप्यकम्बुग्रीवादिमानयम्' इत्याकारिकैवेहा' इति तु 'कम्बुग्रीवादिकं घटत्वादिव्याप्यं,
Jain Educatimational
For Private & Personal Use Only
www.jainelibrary.org