________________
शास्त्रवार्ता- अतस्तद्भेद एवेति प्रतीतिविमुखं वचः। तस्यैव च तथाभावात्तन्निवृत्तीतरात्मकम्॥५१॥ सटीकः। समुच्चयः। अतः- 'तस्य' इत्यस्याभेदं विनाऽनुपपत्तेः, 'तद्भेद एवं' इति वचः, प्रतीतिविमुखं- प्रत्यक्षादिविरुद्धम् । कुतः ? १९९१ इत्याह-- तस्यैव च-वस्तुनः, तथाभावात- तथापरिणमनात् , तद्- वस्तु, निवृत्तीतरात्मकम्- नित्य-निवृत्यात्मकं
यत इति ॥ ५१ ॥
इत्थं चैतदङ्गीकर्तव्यमित्याहनानुवृत्तिनिवृत्तिभ्यां विना यदुपपद्यते। तस्यैव हि तथाभावः सूक्ष्मबुद्ध्या विचिन्त्यताम्५२
नानुत्ति-निवृत्तिभ्यां- प्रत्यक्षसिद्धाभ्यां स्वभावाभ्यां विना, यद् वस्तु, उपपद्यते, तस्व- वस्तुना, तथाभाव:तथापरिणमनम्, इति सूक्ष्मबुद्ध्या विचिन्त्यतामेतत् ।। ५२ ।।
उपसंहरन्नाह-- तस्यैव तु तथाभावे तदेव हि यतस्तथा। भवत्यतो न दोषो नः कश्चिदप्युपपद्यते॥५३॥
तस्यैव तु तथाभावे सिद्धे सति, तदेव हि यतस्तथा भवति- कारणमेव कार्यतया परिणमत इत्युक्तं भवति । अतो न दोषो न:- अस्माकं. कश्चिदपि । एतदुक्तं भवति-कथञ्चिदनिवर्तमानाभिन्न स्वभावं सद् निवर्तते, तथा, निवर्तमानाभिन्नखभावं च कथञ्चिदवतिष्ठत इति प्रतीतिसिद्धमेतत् । तदेव मृद्रव्यं कुशूलात्मना निवर्तते' इत्यत्र च तदाऽनिवर्तमानाधि
N२६९॥
Jain Education International
For Private Personel Use Only
vww.jainelibrary.org