________________
शास्त्रवार्ता
समुच्चयः ।
॥२६८ ॥
"
एवान्यापकर्षसंभवात् तन्मन्दतायामपि मन्दपित्तादिदोषापत्तेश्च । एतेनेतरेतरप्रवेशा देकतरगुणपरित्यागोऽपि निरस्तः, अन्यतरदोषापत्तेः, अनुभवबाधाच्च । अथ मिलितगुड गुण्ठीक्षोदेन नैकं द्रव्यमारभ्यते, विजातीयानां द्रव्यानारम्भकत्वात्, गुडत्व- शुण्ठीत्वसंकरप्रसङ्गात् ; किन्तु कारणविशेषोपनीतरसविशेषवद् गुड-गुण्डी क्षोदसमाजादेव धातुसाम्याद् गुणदोषनिवृत्तिरिति चेत् । न, समुदितगुड-शुण्ठीद्रव्यस्याप्येकत्वपरिणतिमत एवोपलम्भात्, धातुसाम्ये रसविशेषवद् द्रव्यविशेषस्यापि प्रयोजकत्वात्, द्रव्यादिवैचित्र्यादाहार पयाप्तिवैचित्र्योपपत्तेः, अनेकान्ते सकिर्यासंभवात् नृसिंहत्ववदुपपत्तेः । अथ समुदितगुडशुण्ठीद्रव्यं प्रत्येकगुड-शुण्ठीभ्यां विभिन्नमेकस्वभावमेव द्रव्यान्तरम्, न तु मिथोऽभिव्याप्यावस्थितोभयस्वभावं जात्यन्तरमिति चेत् । न तस्य द्रव्यान्तरत्वे विलक्षणमाधुर्य-कटुकत्वाननुभवप्रसङ्गात् एकस्वभावत्वं दोषद्वयोपशमाहेतुत्वप्रसङ्गात्, उभयजननैकस्वभावस्य चानेकत्वगर्भत्वेन सर्वथैकत्वायोगात्, एकया शक्त्योभयकार्य जननेऽतिप्रसङ्गात्, विभिन्नस्वभावानुभ वाच्च । तस्माद् माधुर्य-कटुकत्वयोः परस्परानुवेधनिमित्तमेवोभयदोषनिवर्तकत्वमित्यादरणीयम् ।
ननु जात्यन्तरत्वेऽपि प्रत्येकदोषनिवृत्तिरिति न नियमः, पृथक् स्निग्धोष्णयोः कफ-पित्तकारित्ववत् समुदितस्निग्धोtreaापि माषस्य तथात्वादिति चेत् । न, माषे स्निग्धो ष्णत्वयोर्जात्यन्तरात्मकत्वाभावात्, अन्योन्यानुवेधेन स्वभावान्तरभा after यैव त्वत्; अत्र च स्निग्धोष्णत्वयोर्गुञ्जाफले रक्तत्व-कृष्णत्वयोरिव खण्डशो व्याप्त्यावस्थानात् जात्यन्तरात्मक स्निग्धोष्णत्वशालिनि च दाडिमे श्लेष्म-पित्तोभयदोषाकारित्वमिष्टमेव, "स्निग्धोष्णं दाडिमं हृद्यं श्लेष्म पित्तावरोधि च " इति वैद्यकवचनादिति । इदमिह तत्त्वम् तद्भेदस्य तदेकत्वाभावादिनियतत्त्रेऽपि जात्यन्तरानात्मकस्यैव विलक्षणस्य तस्य
Jain Education International
For Private & Personal Use Only
सटीकः ।
स्तवकः ।
116 11
॥२६८॥
www.jainelibrary.org