________________
शास्त्रवार्तासमुच्चयः।
॥२६७॥
॥
द्रव्य-पर्याययोर्भेदेऽभ्युपगम्यमाने नैकस्य वस्तुन उभयरूपता, तयोर्भदाभिधानात् , एवं चैकमुभयमित्यसिद्धम् । अभेदे पुनरभ्युपगम्यमाने कथमन्यतरस्थान-निवृत्ती- द्रव्यान्वय-पर्यायविच्छेदौ ? इति चिन्त्यताम् , एकस्य निवृत्ति-स्थित्य-स्तक
॥ ७ नुपपत्तेः॥४४॥
अत्रैव हेतुमाह| 'यन्निवृत्तौ न यस्येह निवृत्तिस्तत्ततो यतः। भिन्नं नियमतो दृष्ट यथा कर्कः क्रमेलकात्' ४५
इह- जगति, यनिवृत्तौ यस्य न निवृत्तिस्तदनिवर्तमानं, ततः- निवर्तमानात् , यतः- यस्मात् , नियमतः- सामान्यव्याप्तिबलात् , भिन्नं दृष्ट-भिन्नमनुमितम् । निदर्शनमाह- यथा कर्क:- अश्वविशेषः, क्रमेलकात्- उष्ट्राद् निवर्तमानात् , अनिवर्तमानो भित्रो दृष्ट इति भावः ॥ ४५ ॥
निदर्शितार्थमेव प्रकृते योजयन्नाहनिवर्तते च पर्यायो न तु द्रव्यं ततो न सः। अभिन्नो द्रव्यतोऽभेदे-निवृत्तिस्तत्स्वरूपवत् ४६
निवर्तते च पर्यायः-पिण्डादिः, न तु द्रव्यं- मृदादि । ततः सः- पर्यायः, द्रव्यतोऽभिन्नो न, किन्तु भिन्न एव, यतोऽभेदे तत्स्वरूपवत्- मृद्र्व्यस्वरूपवत् , अनिवृत्तिः स्यात् पर्यायस्य । अथवा, नत्रोअश्लेषे निवृत्तिः स्याद् मृव्यस्थ, तत्व
॥२६७॥ रूपवत्- पर्यायस्वरूपवदिति व्याख्येयम् ॥ ४६॥
REATER
in Education int
ona
For Private & Personal Use Only
SNNiwww.jainelibrary.org