________________
एवं हि - भेदाभेदात्मकवस्तुनः प्रत्यक्षसिद्धत्वे हि उभयदोषादिदोषा अपि - उभयदोषाभ्यां साधारणाकारण नितुमशक्यत्वात् संशयः, ततोऽमतिपत्तिः, ततो विषयव्यवस्थाहानिरित्यादयोऽपि न दूषणम् । कुतः ? इत्याह- सम्यग् - नयप्रमाणोपयोगेन, जात्यन्तरत्वेन - अन्योन्यव्याप्तत्वेन, भेदाभेदप्रसिद्धित:- भेदाभेदनिश्वयात् । अयं भावः- प्रत्येकं नयार्पणया प्रत्येक रूपेण युगपत्तदर्पणया चोभयरूपेण, सप्तभङ्गयात्मकप्रमाणाच्च प्रतिनियतसकलरूपैर्निययाद् नोभयदोषादितः संशयादिकम् । दुर्नयवासनाजनितं संशयादिकं चेदृशविशेषदर्शननिरस्यमिति न मिध्यात्वदोषात् तथाऽनिश्रयमानमपि न तथा वस्त्विति स्मर्तव्यम् । न ह्ययं स्थाणोरपराधो यदेनमन्धो न पश्यतीति ॥ ४२ ॥
यदनेनापाकृतं तदुपन्यस्यति --
एतेनैतत्प्रतिक्षिप्तं यदुक्तं पूर्ववादिभिः । विहायानुभवं मोहाज्जातियुक्त्यनुसारिभिः ॥४३॥
एतेन- अनन्तरोदितेन, एतत्- वक्ष्यमाणम्, प्रतिक्षिप्तं निराकृतम्, यत्, अनुभवम् - अविगानेन प्रवृत्तं शबलाध्यक्षम्, मोहात्- कुतर्कवासनाजनितादज्ञानात्, विहाय- अप्रामाण्य-संशयादिविषयीकृत्य, जातियुक्त्यनुसारिभिः - असद्विकल्पमात्रकदाग्रहग्रहिलैः पूर्ववादिभिः- देवबन्धुप्रमुखैः उक्तम् ॥ ४३ ॥
तद्वचनमेवाह
'द्रव्य-पर्याययोर्भेदे नैकस्योभयरूपता । अभेदेऽन्यतरस्थाननिवृत्ती चिन्त्यतां कथम् ? ४४
Jain Education International
For Private & Personal Use Only
dadda
www.jainelibrary.org