________________
शास्त्रवार्ता - समुच्चयः ।
॥२६६ ॥
ये नाकारेण भेदः किं तेनासावेव किं द्वयम् ? । असत्त्वात्केवलस्येह सतश्च कथितत्वतः॥४०॥ येनाकारेण - येन स्वभावेन, भेदः, किं तेनासावेव- भेद एव, उत द्वयम् भेदाभेदश्चेति ? आय एकान्तः, द्वितीये व्यतिकर इति भावः एतद् विकल्पनं 'कुतः' इति प्राक्तनेन योगः ? । कुतः ? इत्याह- इह प्रक्रमे, केवलस्य भेदस्यासन्वात्- असिद्धत्वात्, सतश्व- सिद्धस्य च कथितत्वतः उक्तशवलस्वभावत्वात् । ततो निर्विषयाः सर्वे विकल्पा इति भावः ।। ४० ।।
उपचयमाह
यतश्च तत्प्रमाणेन गम्यते ह्युभयात्मकम् । अतोऽपि जातिमात्रं तदनवस्थादिकल्पनम् ॥४१॥ यतश्च तत् - अधिकृत वस्तु, प्रमाणेन प्रत्यक्षेण, हि निश्चितम् उभयात्मकं - जात्यन्तरापन्नभेदाभेदभाजनम्, गम्यते, अतोऽपि तत्- परोक्तम्, इहानवस्थादिकल्पनम् जातिमात्रम्- नियुक्तिकविकल्पमात्रम्, प्रत्यक्षबाधात्; अन्यथा घटादेरपि विकल्पविशीर्णतया शून्यतापातादिति ॥ ४१ ॥
दोषान्तर निराकरणमप्यतिदिशन्नाह
एवं ह्युभयदोषादिदोषा अपि न दूषणम्। सम्यग्जात्यन्तरत्वेन भेदाभेदप्रसिद्धितः ॥४२॥
Jain Education International
For Private & Personal Use Only
सटीकः । स्तबकः ।
116 11
॥२६६॥
www.jainelibrary.org