________________
यामनवस्था, आदिना ताभ्यां स्वभावाभ्यां भेदाभेदस्वभावयोः, भेदाभेदस्वभावाभ्यां च तयोः स्वभावयोवृत्तित्वे परस्पराश्रयः, स्वापेक्षितापेक्षितापेक्षायां चक्रकम् , स्वापेक्षायामेव चात्माश्रयः, येन स्वभावेन भेदस्पाधिकरणं वस्तु तेनाभेदस्य, येन च स्वभावेनाभेदस्याधिकरणं तेन भेदस्य चेति संकर इत्यादि द्रष्टव्यम् । कथमेतद् दूषणं न भवति ? इत्याह- नियतत्वात्- स्वभावनियतत्वाद् भेदाभेदवस्तुनः, तथा चोत्पत्ति-ज्ञप्त्यप्रतिबन्धाद् नानवस्थादिकम् । तदुक्तम्- 'न चानवस्था, अन्यनिरपेक्षस्वस्वरूपत एव तथात्वोपपत्तेः' इति । अन्यैरप्युक्तम्- “मूलक्षयकरी प्राहुरनवस्थां हि दुषणम्" इति । तथा, विविक्तस्यअनुभवानुपातिस्वभावबहिभूतस्य, भेदादेश्व- एकान्तवादिपरिकल्पितस्य, असंभवात् , तेन न संकर इति भावः ॥३८॥
किञ्च, परेण प्रसङ्ग एव कर्तुं न शक्यते, भेदादिपदानां केवलभेदादेरदर्शनात् , तत्र शक्तिग्रहासंभवेन प्रयोगस्यैवानुपपत्तेरित्यभिप्रेत्याहनाभेदो भेदरहितो भेदो वाऽभेदवर्जितः । केवलोऽस्ति यतस्तेन कुतस्तत्र विकल्पनम् ॥३९॥
नाभेदो भेदरहितः, भेदो वाऽभेदवर्जितः, केवलोऽस्ति, 'ज्ञायते वा' इति शेषः, यतस्तेन कुतः, तत्र- केवले भेदेऽभेदे वा, विकल्पनं-प्रसङ्गापादनम् , परस्य युज्यते, आश्रयस्यैवासिद्धेः। सिद्धो वा शबलस्वभावस्य तस्य व्याघातेन परविकल्पानवतारात् , आभाससिद्धदूषणेन च वस्त्वदूषणादिति भावः ॥ ३९ ॥
इदमेवाह---
roKOSITE
कर
REETE
Jain Education Intema
For Private & Personel Use Only
jainelibrary.org