SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ सटीकः। स्तबकः। शाखवार्ता धियोरेकतरभ्रान्तत्वे तदितरभ्रान्तत्वस्य तुल्यत्वात् । ततः सामानाधिकरण्यानुभववाधरूपो विरोधो न भेदाभेदयोरिति ममुच्चयः। सिद्धम् । ॥२६५।। सहानवस्थाननियमादनयोर्बाधितमेव सामानाधिकरण्यमिति चेत् । न, तन्नियमासिद्धेः, वह्नयादौ रूपस्य गन्धासामानाधिकरण्यदर्शनेऽपि पृथिव्यां तत्सामानाधिकरण्यवत् , पर्वत-महानसयोः पर्वतीय-महानसीयवह्नयभावयोः परस्परासमानाधिकरण्यदर्शनेऽपि इदे तदुभयसामानाधिकरण्यवद् भेदाभेदयोः प्रतियोगिविशेषितयोरन्यत्रासमाविष्टयोर्दर्शनेऽपि प्रकृते समावेशसंभवात् । नन्वेवं गन्ध-रूपयोरिव भेदा-ऽभेदयोरप्यनवच्छिन्नत्वं स्यादिति चेत् । अनवच्छिन्नयोरनवच्छिन्नत्वमेव, अवच्छिन्नयोश्चावच्छिन्नत्वमेवेति किं नावबुध्यसे । वस्तुतो न कचिदेकान्तः, रूप-गन्धयोरपि भिन्नस्वभावावच्छेदेन पृथिवीवृत्तित्वोपगमात् , अन्यथैकत्वा| पातात् , 'रूपस्वभावेन गन्धो न पृथिवीवृत्तिः' इति व्यवहाराचेति । एतेन परस्परग्रहप्रतिबन्धकग्रहविषयत्वरूपो विरोधोऽपि KO निरस्तः, भेदा-ऽभेदग्रहयोर्विलक्षणसामग्रीकत्वेनैकप्रदेऽपराग्रहात तेन रूपेण च रूपवत्ताग्रहेऽपि गन्धवत्ताऽग्रहादिति द्रष्टव्यम्॥३७॥ दोषान्तरनिराकरणायाहजात्यन्तरात्मके चास्मिन्नानवस्थादिदूषणम्। नियतत्वाद्विविक्तस्य भेदादेश्चाप्यसंभवात् ३८ जात्यन्तरात्मके च- अन्योन्यानुविद्ध च, अस्मिन् - भेदाभेदेऽभ्युपगम्यमाने, अनवस्थादि दूषणं न भवति- 'येन स्वभावेन भेदस्तेनाभेदः' इत्युक्तौ विरोधः, इति भिन्नाभ्यां स्वभावाभ्यां तदङ्गीकारे तयोरपि तत्र वृत्तौ खभावभेदगवेषणा ProtePRAS २६५॥ in Education Internationa For Private & Personel Use Only TOTww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy