________________
Jain Education Intern
नान्यः । किंवत् इत्याह- यद्वत् यथा, 'एकान्तभेदादावभ्युपगम्यमाने' इति शेषः, तयोरेव द्रव्य पर्यावयोरेव अप्रसिद्धित:- स्वरसोद यदनुभवानुपपत्तेः ।। ३५ ।।
कथम् १ इत्याह
मृद्द्रव्यं यन्न पिण्डादिधर्मान्तरविवर्जितम् । तद्वा तेन विनिर्मुक्तं केवलं गम्यते क्वचित् ॥३६॥ मृद्द्रव्यं यद् यस्माद् न पिण्डादिधर्मान्तरविवर्जितं केवलं कचिद् गम्यते । तेन द्रव्यात्मक मात्रा पिण्डादिभेदाप्रसिद्धिः । तद् वा- पिण्डादिधर्मान्तरं, तेन- मृद्द्रव्येण, विनिर्मुक्तं- केवलमाकारमात्रमेव, न कचिद् गम्यते । तेन पर्यायात्मकभेदमात्राभ्युपगमे मृद्रव्यादिभेदासिद्धिः ॥ ३६ ॥
ततः किम् ? इत्याह---
ततोऽसत्तत्तथा न्यायादेकं चोभयसिद्धितः । अन्यत्रातो विरोधस्तदभावापत्तिलक्षणः॥३७॥
ततः- तस्मात्, तत् - मृद्रव्यपिण्डादि, तथा - परस्परनिरपेक्षम्, न्यायात्- अननुभवलक्षणात्, असत् - असिद्धम्, एकं च - एकमेव मृद्रव्यपिण्डादि, 'असत्' इति योगः, उभयसिद्धितः- तथोभयोपलब्धेः । यत एवम् अन्यत्र - केवलभेPersia वा, अतो विरोधः, तदभावापत्तिलक्षणः- द्रव्य-पर्यायाभावप्रसङ्गलक्षणः, स्वानभिमतार्थोपलम्भे परस्य स्वेनैव स्वाभिमतार्थोपलम्भेऽपि परेणासद्विपयत्वस्य वक्तुमशक्यत्वात्, स्वतन्त्रधर्म- धर्मस्वीकारेऽपि वैशेषिकादीनां तत्र भेदाभेद
For Private & Personal Use Only
www.jainelibrary.org