________________
___ अपि च, 'नील-घटयोरभेदः' इत्यादिपयोग एव भेदाभेदाभ्युपगम विना न सुघटः, चाथै द्वन्दानुशासनात् , भेदस्य च चार्थत्वात् । अथ द्वन्द्वेन भेदस्य संसर्गतया प्रकारतया वा भानम् , द्वन्द्वस्य परस्परान्वितपदार्थबोधकत्वाच्च 'चैत्र-चैत्रपुत्रौं' इत्यादौ द्वितीयस्यैव चैत्रपदस्य स्वार्थसंसर्गधीजनकत्वात् , नामार्थयोर्भेदेनान्वयात् , द्वयोः प्राधान्यानुभवविरोधाच्चेति चेत् । न, द्वन्दे भेदाभानेऽभेदभ्रमाद्यनिवृत्तिप्रसङ्गात् , भिन्नतया भानादेव, द्वयोः प्राधान्यानुभवाच्च । किञ्च, भेदं विना द्विवचनानुपपत्तिः, द्वित्वस्य भेदनियतत्वात् । न च 'पडेव पदार्थाः' इत्यादौ पद्त्वादिवदत्र विभिन्नधर्मप्रकारकबुद्धिविषयत्वरूपं द्वित्वं, तच्च प्रकृते न भेदनियतमिति वाच्यम् , द्विवचनाद् निरुपचरितस्यैव द्वित्वस्य प्रतीतेः 'एको द्वौ' इत्यप्रतीतेरेकत्वावच्छिन्ने द्वित्वाविवक्षयैवोपपत्तेः । विचित्रनयविवक्षया तु तत्र द्वित्वतो(नो)द्वित्वादिकं प्रतीयत एव ।। _ 'यद्यद्धर्मप्रकारकबुद्धिविषयत्वं गौणीकृतद्वित्वादिव्यवहारनिमित्तं तत्तद्धर्मावच्छेदेन पर्याप्तम् , तेन ‘एको द्वौ' इत्यादे
युदासः' इत्येकान्तस्तु न शोभते, 'रूप-रसवतोरभेदः' इतिवत् 'रूप-रसवान् द्वौ' इत्यस्य प्रसङ्गात् , अप्रसङ्गाच्च 'घटौ' इत्येकशेषस्य । तत्र घटत्वादेदित्वावच्छेदकत्वेऽन्यत्राप्येकत्र घटत्वेन द्वित्वबोधस्य प्रमाणत्वापत्तेः । किञ्च, पदार्थभेदनियतत्वादपि द्वन्द्वस्य नील घटयोरभेदसंबलितो भेदः । 'प्रतिपाद्यभेदनियतत्वमेव तस्य, कचित् पदार्थभेदे, कचित् पदार्थतावच्छेदकभेदे तत्मतेः' इति त्वेकघाभिप्रायकघटपदद्वयेऽपि द्वन्द्वापत्तेन शोभते ।
अथैकपदप्रतिपाद्यत्वसामानाधिकरण्येनापरप्रतिपाद्यत्वावच्छिन्नभेदे एकपदजन्यप्रतिपत्तिविषयितात्वसामानाधिकरण्येनापरपदजन्यपतिपतिविपयितात्वावच्छिन्नभेदे वा द्वन्द्वः, इत्यमेव मेयवदभिधेयवद्रोधकतदादिपदद्वन्द्वानपवाद इति चेत् ।
Jain Educa
t ional
For Private Personal Use Only
www.jainelibrary.org