________________
| सटीकः।
शास्त्रवार्ता समुच्चयः। ॥२६३३॥
॥ ७
॥
किच, अत्यन्तभिन्ना भिन्नाभ्यां व्यावृत्तं सामान्याधिकरण्यमपि भेदाभेदे प्रमाणम् , भेदाभेदोभयत्वेन साध्यत्वे साध्याप्रसिद्धरभावात् । साध्यतावच्छेदकावच्छिन्नस्य हि प्रसिद्धिरपेक्षिता, न ह्ये कत्र तत्पसिद्धिरपि, गौरवात् , घटे घटत्वसत्तोभयानुमित्युच्छेदप्रसङ्गाच्च । एतेन 'एकान्तभेदाभेदान्यतराभावस्य भेदविशिष्टाभेदस्य वा साध्यतायां साध्याप्रसिद्धिः, प्रत्येकं साध्यतायां चासाधारण्यम्' इति निरस्तम् । न चोभयत्वमप्येकविशिष्टापरत्वमेवेत्युक्तदोषानतिवृत्तिरेवेति वाच्यम् , अविशिष्टियोरपि गोवा-ऽश्वत्वयोरुभयत्वात्ययात् । न चैवं स्वतन्त्रभेदाभेदोभयसिद्धावपि मिलिततदुभयासिद्धयोद्देश्यासिद्धेरान्तरत्वम् , अन्तर्मुखव्याप्त्या मिलितत्वसिद्धेः; अन्यथा पर्वते वह्निसामान्यसिद्धावपि पर्वतीयवहेरसिद्धिप्रसङ्गात् । इत्यन्यत्र विस्तरः ।
न च व्यतिरेकव्याप्ती व्याप्यासिद्धिः, प्रतियोगिमति तदभावायोगादिति वाच्यम् । तेन रूपेग प्रतियोगिमति तेन रूपेण तदभावस्यैवायोगात् । एतेन 'तत्रैव तत् तदभावौ भिन्नावच्छेदेन वर्तेते, ज्ञायते च; यथा वृक्षे मूल-शाखाद्यवच्छेदेन संयोग-तदभावौ, तदिह घटे घटत्वावच्छेदेन नीलत्वावच्छिन्नभेदो वर्तता, ज्ञायतां वा, तदभावस्तु किमवच्छेदेन ?' इति निरस्तम् , अन्योन्यव्याप्तयोस्तयोर्देशभेदेनावृत्तावपि द्रव्यार्थता-पर्यायार्थतारूपभेदेनोपपत्तेः, यथेदंत्व-द्वित्वाभ्यामेकत्व-द्वितयोः । विचित्ररूपत्वाच्च वस्तुनो नयभेदेन विचित्रा प्रतीतिः, यथा शाखावच्छेदेन संयोगः, तदभावश्च मूलादिनानावच्छेदेन; तथा घटे नीलभेदोऽपि घटत्वावच्छेदेन, तदभावस्तु तत्तद्वयक्तित्वादिनानावच्छेदेन । एकपतियोगितावच्छेदकावच्छिन्नभेद-तदभावयोविरुद्धाधिकरणतावच्छेदकावच्छेदेन वृत्तित्वनियमस्त्वसिद्धः, विरुद्धत्वस्थले विभिन्नत्वस्व लाघवेन निवेशौचित्यात् , इत्यपि | नयविशेषानुरुद्धं शुद्धमनुजानीमः ।
॥२६३॥
Jain Education Intem
For Private & Personal Use Only
PANrjainelibrary.org