________________
पपत्तेः । न हि 'पृथक्त्वमन्यत्वमेव' इति नव्यनैयायिकानामिवास्माकमेकान्ताभ्युपगमः, येनानुपपत्तिः स्यात् । न च तेषामप्यत्र 'न पृथक्' इत्यस्य तत्तद्व्यक्तित्वावच्छिन्नभेदाभाववान्' इत्यर्थाद् नानुपपत्तिरिति वाच्यम्, सामान्यसंशयानिवृत्तेः, श्यामपदस्य लक्षणां विनापि यथाश्रुतार्थप्रतिसंधानाच्च ।
एतेन भेदाभेदयोरेकदैकत्र विरोध एव । न च भेदोऽन्योन्याभाव एव, अभेदस्तु तादात्म्यमिति न विरोधः, तादात्म्यस्याभेदव्यवहारेऽहेतुत्वात्' इति गङ्गेशाकूतं निरस्तम् ; तादात्म्येनापि प्रकृते 'न पृथक्' इत्यभेदाभिलापरूपस्याभेदव्यवहारस्य जननादेव; 'प्रमेयमभिधेयम्' इत्यादावपि प्रमेयसामान्येऽभिधेयभेदस्तोमाभावविवक्षायां तदभेदव्यवहारोपपत्तेः, बने बनाभेदव्यवहारवत् ; न चेदेवम्, प्रमेयाऽभिषेययोस्तादात्म्यमपि दुर्घटं स्यात् भेदाभेदविकल्पग्रासात् । अभिधेयतादात्म्यमभिधेयत्वमेव, अभिधेयवत्' इत्यादिधिया विशेषश्च । तत्र तादात्म्यस्यासंसर्गत्वात्, स्वरूपसंबन्धस्यैव संसर्गत्वादिति तु तुच्छम्, अभिधेयत्वाऽभिधेय स्वरूपाविशेषात् ।
एतेन ' तादात्म्यत्वादिसंसर्गतादिना विशेषः' इत्यपि निरस्तम्; अतिरिक्तमेव तादात्म्यत्वम् इत्यमेव ' भूतलं संयोगि' भूतलं संयोगिमत्' इति ज्ञानयोर्वैलक्षण्यम्, आधे तादात्म्यत्वेन, अन्त्ये संयोगत्वादिना संयोगादेः प्रकारतावच्छेददकत्वस्वीकारात् | तादात्म्यमेव वाधिकम्, तत्तत्तादात्म्यत्वस्य तद्वृत्तिनानागुणादौ कल्पने, तत्र कारणतावच्छेदकत्वादिकल्पने च गौरवात् । इत्यपि न पेशलम्, अतिरिक्ततादात्म्यसंबन्धानुपपत्तेः, शबलवस्तुविशेषं विना धीविशेषानुपपत्तेः संयोगि-संयोगिमतोरेव कथञ्चिद्विशेषानुभवाच्चेति दिए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org