________________
शास्त्रवार्ता -
समुच्चयः । ॥२६२॥
Jain Education Internation
नात् । व्याप्तिव - व्याप्तिपदं च विपर्ययम्- अभेदम्, आह, 'घटो नीलव्याप्तः' इत्यत्र 'घटो नीलाभिन्नः' इति विवरणात् । सटीकः तस्माद् द्वयोर्भेदाभेद एवाभ्युपगम्यमाने, अन्योन्यव्याप्ति संभव :- अन्योन्यव्याप्तिशब्दार्थोपपत्तिः । एवं च गुण-गुण्यादिकमन्योन्यव्याप्तमिति शब्दादेव भेदाभेदसिद्धिः ।
न च 'वया लोकावन्योन्यं व्याप्तौ इतिवदत्र परस्परं व्याप्तिप्रत्यय एव समवायेन गुणादेस्तादात्म्येन गुण्यादि - व्याप्तत्वात् तादात्म्येन गुण्यादेश्व समवायेन गुणादिव्याप्तत्वादिति वाच्यम्; नील-घटयोरन्योन्यव्याप्तिप्रतीत्यनुपपत्तेः, क्षीरनीरादिसाधारणान्योन्यव्याप्त्यभिप्रायेणैव तथाप्रयोगाच्चेति भावः । अपिच, 'घटो न नीलरूपम्' 'नीलरूपं न घटात् पृथक्' इति प्रत्यक्षतोऽपि गुण- गुण्यादावनुभूयेते एव भेदाभेदौ । न च 'नीलं न घटात् पृथक्' इत्यत्र घटावधिकपृथक्त्वाभाव एवार्थ, घटत्तिरूपे घटापृथक्त्वाप्रत्ययात् । न चात्र पृथक्पदस्यासमवेतत्वमर्थः तथाच नीलं न घटासमवेतमित्यर्थ इति वा - च्यम्; 'घटो न नीलात् पृथक्' इत्यस्यानुपपत्तेः, घटस्य नीलासमवेतत्वादेव, 'घटो घटत्वाद् न पृथक्' इत्यत्र घटस्वासमवेतत्वाप्रसिद्धेश्व ।
किञ्च, 'घटो घटा न पृथक्' इत्यत्राभेदरूपमपृथक्त्वं प्रतीयते, इत्यन्त्रापि तदेव । न हि पृथक्त्वं भेदादतिरि च्यते, 'घटः पटात् पृथक्' इत्यस्य 'पटाद् भिन्नः' इतिविवरणात् पृथगादिपदयोगे पञ्चम्या आनुशासनिकत्वादेव 'घटान' इत्यादेरसंभवात् । तदेव चापृथक्त्वं तादात्म्यमिति गीयते, यत् प्रत्यभिज्ञानादिनियामकम् । अत एव पाकरक्ते घटे 'अयं न श्यामः' इति 'श्पामाद् न पृथक' इति चोपपद्यते, अन्यत्वरूपभेदस्य, पृथक्त्वरूपभेदाभावस्य चान्योन्यानुविद्धस्यो
For Private & Personal Use Only
स्तबकः ।
|| 6 ||
॥२६२॥
ww.jainelibrary.org