________________
तौ-द्रव्य-पर्ययसंज्ञितावन्वय-व्यतिरेको, अन्योऽज्यव्याप्तितो हेतोः, भेदाभेदवृत्यैव- एकान्तभेदाभेदनियतसंबन्धव्यावृत्तया जात्यन्तरात्मिकया वृत्त्यैव, वस्तु- यथास्थितीव्यपदेशनिबन्धनम् , अन्यथाऽन्योन्यव्याप्तत्वव्यवहारस्यैव तत्र दुर्घटत्वात् ॥ ३१ ॥
एतदेव विशदतरमाहनान्योऽन्यव्याप्तिरेकान्तभेदेऽभेदे च युज्यते। अतिप्रसङ्गादक्याच्च शब्दार्थानुपपत्तितः॥३२॥
अन्योन्यव्याप्तिः- अन्योन्यव्याप्तत्वशब्दार्थः, एकान्तभेदे, अभेदे च- एकान्ताभेदे चेत्यर्थः, 'प्रतिपाद्ययोरभ्युपगo म्यमाने' इति शेषः, न युज्यते-न घटते । कुतः ? इत्याह- अतिप्रसङ्गात्- एकान्तभेदेऽन्योन्यपदार्थोपपत्तावपि व्याप्तिपदाअनुपपत्तेः, ऐक्याच- एकान्ताभेदे व्याप्तिपदार्थोपपत्तावप्यन्योन्यपदार्थानुपपत्तेश्चः शब्दार्थानुपपत्तितः - 'गुण-गुणिनावन्योन्यव्याप्तौ' इत्यादिप्रकृतवाक्यार्थानुपपत्तेः ॥ ३२ ॥
एतदेवान्वयमुखेनाहअन्योन्यमिति यद्भेदं व्याप्तिश्चाह विपर्ययम्।भेदाभेदे द्वयोस्तस्मादन्योन्यव्याप्तिसंभवः३३
यत्- यस्मात् , 'अन्योन्यम्' इति पदं भेदमाह, तद्भिन्नतद्वृत्तित्वे सति तद्भिन्नतवृत्तित्वस्यान्योन्यपदार्थत्वात् , 'घट-पदावन्योन्यसंयुक्तौ' इत्यत्र 'घट-पटौ घटभिन्नपटवृत्तित्वे सति पटभिन्नघटवृत्तिर्यः संयोगस्तवृत्तौ' इत्यन्वयबोधदर्श
Ple
For Private Personal use only