________________
उक्तमेव स्पष्टयन्नाह---
।
अन्वयो व्यतिरेकश्च द्रव्यपर्यायसंज्ञितौ । अन्योन्यव्याप्तितो भेदाभेदवृत्त्यैव वस्तु तौ ॥३१॥ अन्वयो व्यतिरेकश्चेत्येतावंशौ द्रव्य-पर्यायसंज्ञितौ- द्रव्यं पर्यायश्चेति द्रव्य-पर्यायपदवाच्यौ । एतेन 'द्रव्यं, गुणाः, पर्यायाश्च' इति विभागः केषाञ्चिदनभिज्ञस्वयूथ्यानां परयूथ्यानां वा निरस्तः, विभिन्न नयग्राह्याभ्यां द्रव्य-पर्यायत्वाभ्यामेत्र विभागात् । यदि च गुणोऽप्यतिरिक्तः स्यात् तदा तद्ग्रहार्थं द्रव्यार्थिक पर्यायार्थिकवद् गुणार्थिकनयमपि भगवानुपादेयत्, न चैवमस्ति रूप-रस- गन्ध-स्पर्शानामर्हता तेषु तेषु सूत्रेषु "वण्णपज्जवेहिं" इत्यादिना पर्यायसंज्ञयैव नियमनात् । गुण एव तत्र पर्यायशब्देनोक्त इति चेत् । नन्वेवं गुण- पर्यायशब्दयोरेकार्थत्वेऽपि पर्यायशब्देनैव भगवतो देशना, इति न गुणशब्देन पर्यायस्य, तदतिरिक्तस्य वा गुणस्य विभागौचित्यम् । 'एकगुणकाल:' 'दशगुणकालः' इत्यादौ गुणशब्देनापि भगवतो देशनाऽस्त्येवेति चेत् । अस्त्येव संख्यानशास्त्रधर्मवाचकगुणशब्देन, न तु गुणार्थिकनयप्रतिपादनाभिप्रायेण । येन च रूपेण विभिन्नमूलव्याकरणिनयग्राह्यता तेनैव रूपेण विभागः, अन्यथाविभागस्य संप्रदायविरुद्धत्वात् । अत एव " गुण-पर्यायवद् द्रव्यम्" इति सूत्रे गुण-पर्यायपदाभ्यां युगपद-युगपद्भाविपर्यायविशेषोपादानेऽपि न त्रैविध्येन सामान्यविभाग इति तत्रम् । तदिदमाहु:
"रुव-रस-गंध-फासा असमाणग्गहणलक्खणा जम्हा । तम्हा दव्वाणुगया गुण त्ति ते केइ इच्छति ॥ १ ॥
१ तत्वर्थाधिगमसूत्रे ५। ३७ । २ रूप-रस- गन्ध-स्पर्शा असमानग्रहणलक्षणा यस्मात् । तस्माद् द्रव्यानुगता गुणा इति तान् केऽपीच्छन्ति ॥ १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org