SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । ॥२६०॥ Jain Education In पदस्य स्कन्धवृत्तित्वे तत्र 'अघः' इत्यवोक्तेः, "यथा न खण्डं चक्रम्, सकलं चक्रम्, तथा न धर्मास्तिकायस्य प्रदेशो धर्मास्तिकायः" इति प्रवचनवचनात् । देशवृत्तित्वे च 'नोघटः' इत्येवोक्तेः, तदेशत्वे सति तदेशाभावस्य नोपदार्थत्वादिति । एकान्ततिमिरविलुप्तदृशां त्वत्रार्थे महानेवान्धकारः, तथाहि — प्रतीयते तावदयं तन्त्वादिर्न पटादेः पृथगिति सर्वैरविगानेन । तथा च तत्र पटावधिकपृथक्त्वाभाववद्द्रव्यत्वात् पटभेदाभावोऽप्यावश्यकः । न च तत्रान्यादृशमेवापृथक्त्वं प्रतीयते, न तु पृथक्त्वा - भावरूपम्, भिन्नयोर्द्वन्ययोरपृथक्त्वायोगादिति वाच्यम्, तयोर्भेदसिद्धावुक्तप्रतीतौ मुरूपपृथक्त्वाभावानवगाहित्वसिद्धिः, तत्सिद्धौ च तयोर्भेदसिद्धिः, अन्यथा भेदधियस्तद्धियैव बाधनादित्यन्योन्याश्रयात्, 'न पृथग्' इति प्रतीतेः सर्वत्रैकाकारत्वेन विषयवैलक्षण्यायोगाच्च । नन्वेवं क्षीर-नीरयोरपृथक्त्वादभेदः स्यादिति चेत् । किं न स्यात् ? । स्वरूपे सांकर्यादिति चेत् । न, अनेकान्ते यथादर्शनं संकीर्णा-संकीर्णोभयरूपतोपपत्तेः, स्वभावभेदं विना संवन्धसंकरस्याप्यसंभवात् । यद्येवम्, अविभक्तयोः क्षीरनीरयोरपृथक्त्वमेव, तर्हि हंसचञ्चूविभक्तयोरपि तयोः पृथक्त्वं किं न स्यात् ? इति चेत् । न विभागे पृथक्त्वस्यैवोपपत्तेद्रव्याविच्छेदेऽपि पर्यायविच्छेदात् । यदि चैवमनुभवसिद्धमपि तन्तु-पटादीनामपृथक्त्वं प्रतिक्षिप्यते, तदा घटादावपि किं मानम् ? | यश्चैतद्दोषभीतोऽवयवावयविनोः स्वतन्त्रावेव भेदाभेदौ स्वीकरोति, तस्यापि पटैकदेशोऽपटः पटश्वेत्यवक्तव्यः स्यात् । तस्माद् 'न समुद्रोऽयं नाप्यसमुद्रः किन्तु समुत्रैकदेशः' इतिवत्, 'नायं पटो नाप्यपटः किन्तु पटैकदेशः' इति व्यवहारनिर्वाहार्थ परस्पराविनिर्भागवृत्त्यन्वयव्यतिरेकवदेव स्वीकर्तव्यमिति स्थितम् || ३० ॥ For Private & Personal Use Only सटीकः । स्तवकः । || 6 || ॥२६०॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy