SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ ECEMBER कुंभोग जीवदविरं जीवो वि ण होइ कुंभदविअंति। तम्हा दो वि अदविध अण्णोगविसेसिआ हुँति ॥३॥” इति । नन्वेवमजीवो जीवापेक्षया नाजीव इति जीवोऽपि स्यात् । नैवम् , अभावपरिणतः परापेक्षत्वेऽपि भावपरिणतः स्वापेक्षत्वात् । नन्वेवं जीवदेशो नाजीवो नवा संपूर्णजीव इति नोजीवः स्यात्ः स्यादेवेति चेत् कथं त्रैराशिकनिरासः स्यात् ? इति चेत् । सत्यम् , एकान्तमाश्रयत एव त्रैराशिकस्य नयान्तरेण निरासात् : सैद्धान्तिकैस्तु नयमतभेदेन तथाभ्युपगमात् । तथाहि- 'जीवो नोजीवः अजीवो नोजीवः' इत्याकारिते नैगमदेश-संग्रह-व्यवहार-र्जुमूत्रसांप्रतसमभिरूढा जीवं प्रत्यौपशमिकादिभावग्राहिणः पञ्चस्वपि गति' 'जीवः' इति जीवद्रव्यं प्रतियन्ति, 'नोजीवः' इति च नोशब्दस्य सर्वनिषेधार्थपक्षेजीबद्रव्यमेव, देशनिषेधार्थपक्षे च देशस्याप्रतिषेधाजीवस्य देश प्रदेशो; 'अनीवः' इति चाकारस्य सर्वप्रतिषेधार्थत्वात् पर्युदासाश्रयणाच जीवादन्यं पुद्गलद्रव्यादिकमेवः 'नो अजीवः' इति च सर्वप्रतिषेधाश्रयणे जीवद्रव्यमेव, देशप्रतिषेधाश्रयणे चाजीवस्यैव देश प्रदेशौ । एवंभूतस्तु जीवं प्रत्यौदयिकभावग्राहको 'जीवः' इत्याकारिते भवस्थमेव जीवं गृह्णाति, न तु सिद्धं, तत्र जीवनार्थानुपपत्तेः, आत्म-सत्वादिपदार्थोपपत्तेरात्म-सवादिरूपस्तु सोऽपि स्यादेव । 'नोजीवः' इति चाजीवद्रव्यं, सिद्धं वा; 'अजीवः' इति चाजीवद्रव्यमेव, 'नो अनीवः' इति च भवस्थमेव जीवम् , देश-प्रदेशौ तु न स्वीकुरुते संपूर्णवस्तुग्राहित्वादयम् । इत्यधिकं नयरहस्ये । एतेन 'अन्वयादिमयत्वे वस्तुनो घटदेशो न घटो नाप्यघट इत्यवक्तव्यः स्यात्' इति प्रावादुकोक्तिनिरस्ता । घटकुम्भो न जीवद्रव्यं जीवोऽपि न भवति कुम्भद्रग्यमिति । तस्माद् द्वावप्यद्व्यमन्योन्यविशेषिती भवतः ॥३॥२ सम्मतिसूत्रे गाथा १२६,१२७,१२८ । 30 For Private Personal use only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy