SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता समुच्चयः । ॥२५९॥ Jain Educatio 'क्षणस्तथाभूतपरिणामः, नान्यथा । प्रकाशकमपेक्ष्यैव हि प्रकाश्यः प्रकाश्यस्वभावो न अन्धकारमाकाशादिकं वेति । एवं चापवादिक एका किविहारविधिरपि गीतार्थमपेक्ष्यैव, न त्वगीतार्थम्, तस्य गीतार्थपरतन्त्रस्यैव कर्ममात्रेऽधिकारित्वादिति विवेचितमेतदध्यात्ममतपरीक्षायाम् । एवं 'गच्छति' 'तिष्ठति' इत्यादी 'दहनाद् दहनः' 'पचनात् पचनः' इत्यादी जीवद्रव्यमजीवद्रव्यं चेत्यादावप्यन्वयव्यतिरेकव्याप्तिर्भावनीया, गति स्थित्यादिपरिणतस्याप्यूर्ध्वगतिभूत लस्थित्याद्यपेक्षयैव गति स्थितिमत्त्वात्; अन्यथाऽभिप्रेतदेशप्राप्तिस्थितिवदनभिप्रेत देशप्राप्तिः स्थित्योरपि प्रसङ्गात् तथास्वभावसस्त्रे कारणाभावस्याप्रयोजकत्वात्, कारण समाजेन तथास्वभावस्यैवाक्षेपात, अन्यथाऽतिप्रसङ्गात् । दहनादेरपि दाहादिपरिणामयोग्यापेक्षयैव दहनादित्वात्, अन्यथा चातथत्वात्, अदहनस्याप्युदकादिद्रव्यस्य स्वयमदहनत्वेऽपि पृथिव्याद्यदहनव्यावृत्ततया कथञ्चिदतथात्वात् समयाविरोधेन भजनाप्रवृत्तेः जीवा - जीवयोरपि कुम्भाद्यपेक्षया जीवापेक्षया चातथात्वात्; अन्यथा सर्वस्य सर्वात्मकतापत्तेः । तदिदमाह - “गैइपरिणयं गई चैत्र केइ णिअमेण दविमिच्छति । तं पि अ उद्गइअं तहा गई अण्गहा अगई ॥ १ ॥ गुणणिव्यत्तिअसण्णा एवं दहणादओ वि दट्ठव्वा । जं तु जहा पडिसिद्धं दव्वमदनं तहा होइ ॥ २ ॥ national १ गतिपरिणतं गत्यैव केचिद् नियमेन द्रव्यमिच्छन्ति । तदपि चोर्ध्वगतिकं तथागतेरन्यथाऽगतेः ॥ १ ॥ गुणनिर्वर्तितसंज्ञा एवं दहनादयोऽपि द्रष्टव्याः । यत्तु यथा प्रतिषिद्धं द्रव्यमव्यं तथा भवति ॥ २ ॥ For Private & Personal Use Only सटीकः । स्तवकः । 119 11 ॥२५९॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy