________________
बाल' इत्यस्याप्यापत्तेः, बाल्यकालावच्छेदेन बालवृत्तिभिन्नस्य सत्चादेः माकालवृत्तनि सचान, ईदृशश्यामधर्म्यस्य श्यामनिष्ठत्वात् 'श्यामो न श्यामः' इत्यादेरपि प्रसङ्गात् । प्रत्यक्षसिद्धभेदप्रतीतेरपह्नवे प्रत्यभिज्ञायामप्यनाश्वासात् , अभेदसिद्धावपि भेदाविरोधात् , भेदाभेद एव प्रत्यभिज्ञाया उपपादयिष्यमाणत्वाचेति दिग् । तदेवमन्वयादिमयमेव वस्त्विति सिद्धम् ।
न चैवमनेकान्ते 'षडेव जीवनिकायाः' इति श्रद्धानवतां सम्यक्त्वभङ्गः, विभागवाक्याद् न्यूनतालाभेऽनेकान्तव्याघाताद् मिथ्यात्वापत्तेरिति वाच्यम् ; भावतस्तेपामनेकान्तपरिज्ञानशून्यानामसम्यग्दृष्टित्वादेव, जीवराश्यपेक्षया तेषां कायांनामपि पुद्गलतया, जीव-पुद्गलपदेशानां च परस्पराविनिर्भागवृत्तितयैकत्वस्याश्रद्धानात् , द्रव्यत एव च 'भगवतवमुक्तम्' इति जिनवचनरुचिस्वभावत्वेन सम्यग्दृष्टित्वात् । तदुक्तम्
"णि अमेण सदहंतो छक्काए भावओ ण सहइ । बंदी अपज्जवेसु वि सदहणा होइ अविभत्तां ॥१॥" इति ।
न चैवं तत्र सम्यग्दृष्टित्वव्यवहारेऽपि सम्यग्दर्शनप्रत्ययिकनिर्जरानापत्तिः, नय-निःक्षेपादिपरिच्छेदाधीनसकलसूत्रार्थपरिज्ञानसाध्यविशिष्टप्रवचनरुचिस्वभावभावसम्यक्त्वसाध्यनिर्जरानवाप्तावपि भावसम्यक्त्वसाधकतया द्रव्यसम्यक्त्वस्वरूपव्यवस्थितेर्मार्गानुमार्यवोधमात्रानुषक्तरुचिजन्यनिर्जरानपायात् । इदं तु ध्येयम्- ज्ञान दर्शन-चारित्राणां शिविकावाहकपुरुषवद् मिलितानामेव मोक्षहेतुत्वाभिधानादगीतार्थे तदभावेन मोक्षानापतेः, अनेकान्तपरिच्छेदरूपस्य ज्ञानस्य गीतार्थे साक्षात् , अगीतार्थे च स्वाश्रयपारतन्त्र्येण हेतुत्वम् । निश्रयतस्तद्गतफले तद्गताध्यवसायस्यैव हेतुत्वेऽपि गीतार्थापेक्ष एवागीतार्थस्य प्रतिक्षणविल1 नियमेन श्रद्दधानः षट् कायान् भावतो न श्रदधाति । हन्तापर्यवेष्वपि श्रद्वानं भवस्यविभक्तम् ॥ १॥ २ सम्मतिसूत्रे १२५ ।
అంతంత
Jain Education Inter!
For Private Personal use only
Imiaw.jainelibrary.org