________________
वार्तासमुच्चयः । ॥२५८॥
शरीरं तु परिणामभेदाद् भिद्यत एव इति नैयायिकादीनां मतम् । तदसत्, 'अहं बालः' इत्यादिप्रतीत्या बालत्वाद्यवस्थानामहंत्वसामानाधिकरण्यस्य 'प्राग् बाल आसम् इदानीं युवास्मि' इत्यादिधिया चाहंतास्पदस्य बाल्य-यौवनादिभेदेनोत्पादनाश-स्थित्यात्मकस्य सिद्धेः ; न चेदेवम्, बाल्यादिवद् मनुष्यत्वादेरपि 'शरीरमात्रनिष्टत्वे मनुष्यत्वादिप्रयोज्यो गुणविशेष आत्मनि न घटेत | मनुष्यत्वादिकं संयोगादिवदुभयाश्रितमिति चेत् । बाल्यादिकमपि तथैव । न चैवं 'गौरोऽहम्' इत्यादिधिया काया - ssत्मनोरभेदः सिध्यंश्चार्वाकमतं न प्रतिक्षिपेदिति वाच्यम्; स्यात्कारस्यैव चार्वाक - नैयायिकयोरुभयोरपि वारणे समर्थत्वात्, मृगपतेरिव मृग- वारणयोः । ' शरीरस्यापि वाल्यादिभेदेन भेद एव' इति वदतामभेदमत्यभिज्ञाक्षतिः । न च विभिन्न परिणामवत्त्वलक्षणवैधर्म्यज्ञानकालोत्पत्तिकायास्तस्यास्तज्जातीयाभेदविषयकत्वमेवेति वाच्यम्; घटे श्यामत्व-रक्तत्वयोरिव शरीरे विभिन्नपरिमाणयोर्विधर्मत्वेनाप्रतिसंधानात् । विशिष्टवैधर्म्यस्य शुद्धव्यक्त्यभेदाविरोधित्वं च समानम् ।
येsपि 'उक्तप्रत्यभिज्ञाभीता बाल्यादिभेदेऽपि शरीरमेकमेव' इत्येकान्तेऽभिनिविशन्ते, तदुक्तं पदार्थरत्नमालाकृता'परे तु - 'तत्राश्रय एक एव प्रत्यभिज्ञानात्' इति मन्यमानाः परिमाणान्तरोत्पादमाहुः' इति । तेऽपि मन्दाः, अबाधितभेदव्यवहारादिविलोपात् । अथ 'युवा न वालः' इत्यत्र यूनि बालवैधर्म्यमेव भासते । तत्र नवो वृत्तिमान् भिन्नं चार्थः, वृत्तिमति बालत्वविशिष्टविशेषणावच्छेदककालावच्छिन्नाधेयतया वृत्तिमान्, भिन्ने तत्रैव कालादिरप्यन्वेति ; तथा च 'इदानीं न बालः ' इत्यस्य 'बालत्वविशिष्टवृत्तिमद्भिनैतत्कालीन धर्मवान्' इत्यर्थः । युक्तं चैतत् 'न पृथग्' इति प्रतीतेस्तदवधिकपृथक्त्वाभाववद्द्रव्यत्वेन तदन्योन्याभावाभावसिद्धेः । तदाहुन्ययाचार्या:- 'श्यामाद् रक्तो विधर्मा न तु पृथग्' इति चेत् । न, 'प्राग् न
,
Jain Educationational
For Private & Personal Use Only
सटीकः । स्तबर : ।
॥ ७ ॥
॥२५८॥
www.jainelibrary.org