________________
तदेवमतीत-वर्तमानयोर्भेदाभेदो भावितः। एवमनागत-वर्तमानयोरपि, यत आयत्यैव- वार्धके सुखहेतुधनाद्यर्थमेव, चेष्टते ।। अतो युव-वृद्धयोरभेदः । न ह्यन्योऽन्याथ चेष्टत इति ॥ २९ ॥
. न चाप्यभेद एवेत्याह| युवैव न च वृद्धोऽपि नान्यार्थ चेष्टनं च तत्। अन्वयादिमयं वस्तु तदभावोऽन्यथा भवेत्॥३०॥
न च युवैव वृद्धोऽपि- सर्वथा वृद्धपर्यायापन एव, 'इदानीमयं युवा न वृद्धः' इति प्रतीतेः । न च तत्काले तत्र यूनि तत्संतानीयदृद्धभेद एव, यतोऽन्यार्थ संतानानन्तरवृद्धवत् , न च चेष्टनं-कायव्यापाररूपम् । तत्-तस्मात् , वस्त्वन्वयादिमयंआदिना व्यतिरेकग्रहादन्वय-व्यतिरेकशबलम् , अन्यथा, तदभावः- अधिकृतवस्त्वभावो भवेत् , सर्वथाऽसत्सद्भावविरोधात् । तदिदमुक्तं सम्मतिकृता"पडिपुग्मजोव्वणगुणो जह लज्जइ बालभावचरिएंण । कुणइ य गुणपणिहाणं अणागयसुहोवहाणथं ॥१॥
य होइ जोब्बणत्यो बालो अन्नो वि लज्जइ न तेण । ण वि अ अणागयतग्गुणपसाहणं जुज्जइ विभत्ते ॥२॥" इति । यत्तु- 'बाल्याद्याः शरीरस्यैवावस्थाः, आत्मा तु बाल्याद्यवस्थाभेदाद् न निवर्तते, भिद्यते वा, नित्यैकरूपत्वात्तस्य ; १ प्रतिपनायौवनगुणो यथा लगाते बालभावचरितेन । करोति च गुणप्रणिधानमनागतसुखोपधानार्थम् ॥1॥
न च भवति यौवनस्थो बालोऽन्योऽपि लज्जते न तेन । नापि चानागततद्गुणप्रसाधनं युज्यते विभक्ते ॥ २॥ २ मुद्रितमूलसम्मती 'एहिं' इति पाठः। ३ सम्मतिप्रकरणे गाथा ४३, ४४।
Eston
For Private
Personel Use Only