________________
शास्त्रवार्ता
समुच्चयः । ॥२५७॥
जन्यत्वनियमात् । अत एव 'सदसतोरविशेषणात् सर्वं ज्ञानं मिथ्यादृशां विपर्यस्तम्, सम्यग्दृशां च संशयादिकमपि तादृशदोषाजन्यत्वादविपर्यस्तम्' इति परिभाषन्ते । इत्यन्यत्र विस्तरः ॥ २७ ॥
फलितमाह
तस्यैव च तथाभावे तन्निवृत्तीतरात्मकम् । द्रव्य-पयार्यवद्वस्तु बलादेव प्रसिध्यति ॥ २८॥ तस्यैव च - संसारिणः, तथाभावे - मुक्तभावेऽभ्युपगम्यमाने तद्- अधिकृतं वस्तु, निवृत्तीतरात्मकं नित्य-निवृत्ति स्वभावम्, बलादेव - स्याद्वाद साम्राज्यादेव, द्रव्य-पर्यायवत् प्रसिध्यति, तस्यैव तथा भवनादिति ॥ २८ ॥
तदिदं लोकानुभवतोऽपि साधयन्नाह
| लज्जते बाल्यचरितैर्बाल एव न चापि यत् । युवा न लज्जते चान्यस्तैरायत्यैव चेष्टते २९ लज्जते वाल्यचरितैः- चौर्या संस्पृश्यस्पर्श- क्रीडादिभिः, अतो बाल एव युवा, 'अहमेव पूर्व चौर्यायनुष्ठितवान्' इति लज्जानिबन्धनाभेदप्रत्यभिज्ञानाद् बाल-यूनोरभेदसिद्धेः । न चाप्येकान्तो बाल एव यद् यस्माद् युवा, एवं हि ' अयमिदानीं युवा, न बाल: ' इति भेदप्रतिभासो नानुरुद्धः स्यात् । न च बालस्वभावापरित्यागे युवस्वभावपरिग्रहोऽपि स्यात्, उत्तरस्वभावे पूर्वस्वभाव परित्यागस्य हेतुत्वात् । न च तत्काले यूनि बालसामान्यभेद एव, 'इदानीं युवा न बालः' इति प्रतीतेरिति वाच्यम्, यतो न चान्यः- भिन्नसंतानान्तरयुवा, तै:- बाल्यचरितैः, लज्जते, अतस्तत्र न तत्संतानीयवालभेद एव ।
Jain Education International
For Private & Personal Use Only
सटीकः ।
स्तबकः ।
1119 11
॥२५७॥
www.jainelibrary.org