SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ र्येव स इति चेत् । कथं तर्हि मुक्त 'असंसारी' इति व्यवहारः १ । गौणः स इति चेत् । न, स्वेच्छामात्रानुरोधेऽपि लोक-शास्त्रव्यवहाराननुरोधात् । अत एवाह- मुक्तोऽपि चेत् स एव- मुक्त एव न संसारी, इति हेतोः प्रागप्यस्य संसारिस्वभावत्वाभा वात् अनिबन्धनः- निर्निमित्तः, व्यपदेश:- 'मुक्तः सः' इत्युल्लेखवान् ।। २६ । एतदेव स्पष्टयति- संसाराद् विप्रमुक्तो यन्मुक्त इत्यभिधीयते । नैतत्तस्यैव तद्भावमन्तरेणोपपद्यते ॥२७॥ यत् - यस्मात्, संसाराद् विप्रमुक्तो मुक्त इत्यभिधीयते, मुचेरवधिसापेक्षत्वात् । एतत् - इत्थंभूतं मुक्तत्वम्, तस्यैवसंसारिण एव तद्भावमन्तरेण- मुक्तभावाभ्युपगमं विना, नोपपद्यते । इष्यत एव तस्यैव तद्भावः धर्मिण्येव धर्मोपगमात्, धर्मिणोऽपि कथञ्चित्परावृत्तिस्तु नेष्यत इति चेत् । न, संसारिस्वभावं परित्यज्य मुक्तस्वभावोपादानाद् धर्मिणोऽपि कथञ्चित्परावृत्तेः । विशिष्टधर्मिभेदेऽपि शुद्धधर्म्यभेदाद् न दोष चेत् । अयमेव द्रव्यतोऽभेदः, पर्यायतश्च भेद इत्यनेकान्तो यदि स्यात्पदानुविद्धः तादृशभेदस्यापि तादृशभेदनान्तरीयकत्वात् । मुक्तेऽपि तदा संसारिभेदेऽपि प्राक् तदभेदात् । तत्कालापेक्षा तत्र तद्भेद एवेति चेत् । नैतावतैवापेक्षाविश्रामः, तत्कालेऽपि तदन्यकालाभेदादिकृतापेक्षाऽऽन्त्यात् । तावदपेक्षानियतवस्तुमतीतिर्न कथमपि स्यादिति चेत् । सत्यम्, स्यात्पद्महिम्ना प्रधानो - पसर्जन भावेन तथाप्रतीत्युपपत्तेः, मत्यक्षेsपि सम्यग्दर्शन गुणमहिम्ना तथाभावात् मिथ्यादृशां तु सापेक्षयोर्धर्मयोरेकत्र निमित्तभेदं विना भानस्य संशयवद् दोष Jain Educationational For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy