________________
शास्त्रवार्ता
समुच्चयः । ॥२५६।।
Jain Education In
इत्थं च 'संसार्यपि न संसारी' इत्याद्यप्यर्थतो निरस्तमेत्र, तथापि विशिष्य तद् निरसितुकामस्तत्र प्रयोजनमाह -
एतेन सर्वमेवेति यदुक्तं तन्निराकृतम् । शिष्यव्युत्पत्तये किञ्चित्तथाप्यपरमुच्यते ॥ २५॥
एतेन - अनन्तरोदितेन स्याद्वादसाधनेन, सर्वमेत्र यदुक्तं पूर्वपक्षिणा, तद् निराकृतम्, अधिकस्याप्युक्ततुल्ययोगक्षेमत्वात् । तथापि शिष्यव्युत्पत्तये- प्रपञ्चयज्ञशिष्यमतिविस्फारणाय, किञ्चिदपरम् - अवशिष्टविषयम्, उच्यते ॥ २५ ॥
तथाहि
संसारी चेत्स एवेति कथं मुक्तस्य संभवः । मुक्तोऽपि चेत्स एवेति व्यपदेशोऽनिबन्धनः ॥
संसारी चेत् स एव - संसार्येव, एवकार एकान्ते इति हेतोः, संसारिणः सर्वथा संसारित्वात् कथं मुक्तस्य संभवः - संसारिण्ययं मुक्त इत्यादिव्यपदेशः १ । क्षणभेदस्त्वत्र न परिहारः सर्वथाऽसारूप्यात् । स्यान्मतमन्येषाम् - स एव संसारी स एव च मुक्तः, न तु न संसारी न मुक्तश्व, संसारित्व- मुक्तत्वयोः संसारिमुक्तभेदविरोधित्वात् प्रतियोगितावच्छेदकेन सहान्योन्याभावस्य विरोधे कालभेदानिवेशादिति । असदेतत्, 'इदानीमयं संसारी न मुक्तः 'इदानीं स मुक्तो न संसारी' इत्यादिव्यवहारात् संसारि-मुक्त योरसंसार्य-मुक्तयोश्च कालभेदेन विभिन्नतया व्यवस्थितेः । विभेदे कथमेकत्रोभयथा व्यवहार इति चेत् । सोऽयमेकान्तवादिन एवं शिरसि महारः । अथ नित्यज्ञानादिमद्भिन्नः संसारी, तद्भेदश्व न तत्रेति संसा
१ अत्र स्तबके कारिका ८ |
For Private & Personal Use Only
सटीकः ।
स्तवकः ।
116 11
७ ॥
॥२५६ ॥
www.jainelibrary.org