________________
योगाचेति ।
किञ्च, परः साध्यं साधयन् न तावत् सामान्य साधयेत् , केवलस्य तस्यासंभवात् । नापि विशेषम् , तस्याननुयायित्वेन साधयितुम शक्यत्वात् । न च सामान्योपरागेण विशेषस्याप्यनुयायित्वम् , समवायनिषेधेन तदुपरागासिद्धेः 'पर्वतो जातिमद्वान्' इत्यादावतिप्रसङ्गाच्च । नाप्युभयम् , उभयदोषानतिवृत्तेः । नाप्यनुभयम् , तस्यासक्वात् , इत्यायूह्यम् । तदिदमुक्तम्"साहम्मओ व्व अत्थं साहिज परो विहम्मओ वावि । अन्नोन्नं पडिकुंठा दो वि अ एए असव्वाया ॥१॥" इति ।
अनेकान्ते तु न साध्यसिद्धिरनुपपन्ना, कयश्चिद् वह्निमत्तायाः साध्यत्वेन 'पर्वतो द्रव्यवान्' इत्यादावनतिप्रसङ्गात् , वह्निमत्ताया द्रव्यवत्तासामान्यक्रोडीकृतत्वेऽपि कथञ्चिदतिरेकात् , विवादास्पदीभूतसामान्य-विशेषोभयात्मकसाध्यधर्माधारसाध्यधर्मिसिद्धेश्च अन्यथा 'पर्वतसामान्यं वह्निमत्तयाऽनुमिनोमि' 'इमं पर्वतं वद्विमत्तयाऽनुमिनोमि' इत्यादि विभज्याध्यवसायाकारानुपपत्तेः, इतरत्र संशयानिवृत्तिप्रसङ्गाच्च । इत्यन्यत्र विस्तरः । तदिदमाह
"देवढिअवत्तव्वं सामण्णं पजवस्स य विसेसो । एए समोवणीया विभज्ज वायं विसेसंति ॥१॥" इति । तदेवं 'स्याद्वादिनो न कचिदपि निश्चयो युज्यते' इति पूर्वपक्षिणोक्तं निराकृतम् ॥ २४ ॥ 1 साधर्म्यतो वार्थ साधयेत् परो वैधयंतो वापि । अन्योन्यं परिकुण्ठौ द्वावपि चैतावसद्वादौ ॥१॥ २ सम्मतिप्रकरणे गाथा १५३ । ३ व्यास्तिकवक्तव्यं सामान्य पर्यवस्य च विशेषः । एतौ समोपनीती विभज्य वादं विशिष्टः ॥७॥ ४ सम्मतिप्रकरणे गाथा १५४ ।
ROCEEN
deceae
For Private
Personel Use Only