SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ BIPICशा सटीकः । स्तबकः। ॥७॥ शास्त्रवातो-दिति । येऽपि नगर-त्रैलोक्यादिवत् पितृ-पुत्रादिभावभाग ज्ञानाकार एव' इति प्रतिपन्नवन्तः । तेऽपि शबलार्थानुपपत्तिभीताः समुच्चयः। शवलज्ञानमाश्रयन्तो व्याघ्रात् त्रस्यन्तः कूपान्तःपातिन इति दिग् । ॥२५५॥ एवं चानुमानादिनापि नैकान्तसिद्धिः, अध्यक्षबाधितेऽर्थेऽनुमानादिप्रमाणाप्रवृत्तेः । किश्च, साधर्म्यतः परः साध्य साधयेत् , वैधयेतो वा ? । उभयथापि तत्पुत्रत्वादेर्गमकत्वप्रसङ्गः, प्रकरणसम-कालात्ययापदिष्टयोर्हेत्वाभासत्वाभावेनाबाधकत्वात् , निश्चितस्वसाध्याविनाभूतहेतूपलम्भस्यैव साध्यधर्मिणि साध्यप्रतिपत्तिरूपत्वेन तयोस्तदप्रतिपन्थित्वात् । न च यथा तवात्राऽगमकत्वं तथा ममापीति शङ्कनीयम् , ममाक्षिप्तपरस्परस्वरूपाजहत्तिसाधर्म्यवैधर्म्यस्वभावनिबन्धनत्रैरूप्यनिश्चयाभावेन तस्यागमकत्वात् , परस्य च तथाऽनभ्युपगमात् । किश्च, परस्य स्वसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यसाध्याभाववदवृत्तित्वसाध्यसंबन्धितावच्छे . दकरूपवत्त्वादिव्याप्तीनां नानात्वात् साधने साध्यव्याप्यत्वमपि दुर्घहम् । न च सर्वासामपि वह्निनिरूपितव्याप्तीनां प्रत्येक वन्यनुमित्यङ्गत्वमेव, कार्यतावच्छेदके तत्तदव्यवहितोत्तरत्वादिदानाच न व्यभिचार इति वाच्यम् , अनुगतहेतु-हेतुमद्भाव विनाऽनुगतव्यवहारप्रवृत्त्याउनुपपत्तेः, अनुमितिजनकतावच्छेदकतया सिद्धाया एकस्या एवं व्याप्तेः प्रतिस्त्र विभज्यानुभवाद् भेदमिश्रितत्वस्वीकारौचित्यात् । एवं विशिष्यतत्तद्धर्मावच्छिन्नकारणताश्रयेऽपि तत्तद्धर्मसामान्याधिकरण्येन सामान्यकारणताव्यपदेशसमर्थनमपि परेषां शब्दान्तरेण सामान्यविशेषभावमेव वस्तुनो द्रढयति, अर्पिताऽनर्पितसिद्धेः, इति द्रष्टव्यम्, “यसामान्ये यत्सामान्यं हेतुस्तद्विशेषे तद्विशेषोपि" इति न्यायोपपत्तेः, अर्थन्यायेना भावेनाप्रधानगुणभूतेऽपि प्रधानगुणभाव 1॥२५५|| Jain Educh an inte For Private & Personal Use Only RWAlww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy