SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ सरदारपसरसादर तदेवं सप्तभङ्ग्यात्मकप्रमाणेनानेकान्त एवं निश्चयो युज्यते, नैकान्त इति निगमयन्नाहअनेकान्तत एवातः सम्यग्मानव्यवस्थितेः। स्याहादिनो नियोगेन युज्यते निश्चयः परम् ॥ अतः- उक्तयुक्तः, अनेकान्तत एव- अनेकान्तमतमवलम्ब्यैव, सम्यग्मानव्यवस्थितेः- अविसंवादिप्रमाणव्यवस्थानात् , स्थावादिनो नियोगेन-नियमेन, निश्चयो युज्यते, परं-केवलम् । 'परम्' इत्यनेनैकान्ते मानस्यैवानवतार इति सूचितम् । तथाहि-न तावदध्यक्षादेकान्तसिद्धिः, अनेकान्तस्यैव सर्वैरध्यक्षमनुभवात् , एकस्यैव वस्तुनो वस्त्वन्तरसंबन्धाविभूतानेकसंबन्धिरूपत्वात् , पितृ-पुत्र-भ्रातृ-भागिनेयादिविशिष्टकपुरुषवत् , पूर्वा-ऽपरा-ऽन्तरिता-ऽनन्तरित-दुरा-ऽऽसन्न-नव-पुराण-समर्थाऽसमर्थदेवदत्त-चैत्रस्वामिकलब्ध-कृत-हृतादिरूपघटवद् वा । यत्पुनरुच्यते मण्डनेन "पित्रादिविषयेऽपेक्षा जननादिप्रभाविता । एकक्रियाविशेषेण व्यपेक्षा इस्व-दीर्घयोः" ॥ १॥ इति । तत्तु दृष्टान्त-दाष्टान्तिकयोरापेक्षिकपर्यायत्वपर्यवसानाद् नातिचतुरस्रम् । यदप्येतद् विवृण्वतोक्तम्- 'शब्दार्थस्तत्र सा. पेक्षो न वस्तु' इति । तदप्यशब्दार्थस्य वस्तुतः सिद्धौ शब्दस्य च कल्पनामात्रपर्यवसितत्वे शोभते । येषामपि मतम्- 'पितृत्वपुत्रत्वादयो धर्मा एव तत्तनिरूपिता भिद्यन्ते, धर्मी त्वेकस्वभाव एवं'। तेषामपि 'एतदपेक्षयाऽयं पिता, एतदपेक्षया च न पिता' इत्यादिप्रतीत्यननुराध एव, धर्मिभेदप्रतीतेधर्माभावावगाहितायो 'घटः पटोन' इत्यादावपि तथात्वापच्या च भेदकथैरोसीदे १ ज. 'त्तकृतचे। २ ख. ग. घ. 'विना' । in Education Indiana For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy