________________
शाखवार्तासमुच्चयः।
सटीकः। स्तबकः।
॥२५४॥
Shockera
केचित्तु- 'अनन्तधर्मात्मकवस्तुप्रतिपादकत्वाविशेषेऽप्याद्याखय एव भङ्गा निरवयवप्रतिपत्तिद्वारा सकलादेशाः, अग्रि- मास्तु चत्वारः सावयवपतिपत्तिद्वारा विकलादेशाः' इति प्रतिपन्नवन्तः । एते च सप्तापि भङ्गाः स्यात्पदालाञ्छिता अवधारगैकस्वभावा विषयासत्वादु दुर्नयाः, स्यात्पदलाञ्छितस्त्वेतदन्यतमोऽधीतरांशापतिपादेकदेशव्यवहारानिबन्धनत्वात सुनय एव । 'अस्ति' इत्यादिकस्तु स्यात्कारैवकारविनिर्मुक्तो धर्मान्तरोपादानप्रतिषेधाकरणात् स्वार्थमात्रप्रतिपादनप्रवणः सुनयोऽपि न व्यवहाराङ्गमिति द्रष्टव्यम् ।
अयं च सप्तविधोऽपि वचनमार्गोऽर्थनयेऽविशिष्टः । तत्र प्रथमः संग्रहे सामान्यग्राहिणि, द्वितीयो व्यवहारे विशेषग्राहि|णि, तृतीय ऋजुसूत्रे पृथक्त्वमनिच्छति, चतुर्थः संग्रह-व्यवहारयोः, पञ्चमः संग्रह-र्जुमूत्रयोः, षष्ठो व्यवहार-ऋजुसूत्रयोः, सप्तमः संग्रह-व्यवहार-र्जुमूत्रेषु । व्यञ्जननये च सविकल्पो निर्विकल्पश्च । प्रथमेऽथैकत्वेऽपि पर्यायशब्दवाच्यताविकल्पसद्भावात् प्रथमः सविकल्पः । द्वितीय तृतीययोर्द्रव्यार्थनिर्गतपर्यायाभिधायकत्वाद् निर्विकल्पो द्वितीयः, शब्दादिषु तृतीयः । संयोगादन्ये ।
अथवा, वक्तृस्थप्रत्ययरूपेऽर्थनये सप्ताप्येते संभविनः । श्रोतृस्थप्रत्ययरूपे व्यञ्जननये तु शब्द समभिरूढयोः संज्ञा. क्रियाभेदेऽप्यभिन्नार्थप्रतिपादनात् सविकल्पः प्रथमभङ्गः । एवंभूतस्तु क्रियाभेदा भिन्नमेवार्थ प्रतिपादयतीति तत्र निर्विकल्पो द्वितीयभङ्ग एव । अवक्तव्यस्तु शब्दाविषयत्वाद् नास्त्येवेति वदति, सद्भावायर्पणया ऋजुमूत्राद् विशेषिततरार्थाभ्युपगमस्य शब्दनये भाष्यकृता पक्षान्तरमधिकृत्याभिहितत्वात् , तदपेक्षया तत्र सप्तापि सविकल्पाः, यथाश्रुते तु निर्विकल्पा इत्यप्यनुजानीमः ॥ २३॥
॥२५४॥
Jan Education in
For Private Personel Use Only