________________
इयं च सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा चं प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेददृत्तिप्राधान्यात्, अभेदोपचाराद् वा यौगपद्येन प्रतिपादकं वचः सकलादेशः । तद्विपरीतो विकलादेशैः । अभेदवृत्तिप्राधान्यम् - द्रव्यार्थिकन यगृहीत सत्ताद्य भिन्नानन्तधर्मात्मकवस्तुशक्तिकस्य सदादिपदस्य कालाद्यभेदविशेषप्रतिसंधानेन पर्यायार्थिकन पर्यालोचनप्रादुर्भवच्छक्यार्थबाधप्रतिरोधः । अभेदोपचारच - पर्यायार्थिकन यगृहीतान्यापोहपर्यवसितसत्तादिमाशक्तिकस्य तात्पर्यानुपपच्या सदादिपदस्योक्तार्थे लक्षणा |
कालादयश्चाष्टाविमे - कालः, आत्मरूपम्, अर्थः, संवन्धः उपकारः, गुणिदेशः, संसर्गः शब्द इति च । तत्र यत्कालमस्तित्वं तत्कालाः शेषानन्तधर्मा वस्तुन्येकत्रेति तेषां कालेनाभेदवृत्तिः । यदेव चास्तित्वस्य तद्गुणत्वमात्मरूपं तदेवान्यगुणानामपीत्यात्मरूपेणाभेदवृत्तिः । य एव चाधारोऽर्थो द्रव्याख्योऽस्तित्वस्य स एवान्यपर्यायाणामित्यर्थेनाभेदवृत्तिः । य एव चाविष्वग्भावः संबन्धोऽस्तित्वस्य स एवान्येषामिति संबन्धेनाभेदवृत्तिः । य एव चोपकारोऽस्तित्वेन वस्तुनः स्वप्रकारकप्रतीतिविषयत्वलक्षणः, स एवान्येषामित्युपकारेणाभेदवृत्तिः । य एव च गुणिनः संवन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य स एवान्येषाम्, इति गुणिदेशेनाभेदवृत्तिः । य एव च वस्तुनः संसर्गोऽस्तित्व स्याधाराधेयभावलक्षणः, स एवान्येषाम् इति संसर्गेणाभेदवृत्तिः । य एव च 'अस्ति' इति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः, स एवाशेषानन्तधर्मात्मकस्यापि इति शब्देनाभेदवृत्तिः ।
१ प्रमाणनयतत्वालोकालङ्कारे ४।४३। २ प्रमा० ४ ४ ४ | ३ प्रमा० ४।४५।
Jain Educatmational
For Private & Personal Use Only
www.jainelibrary.org